________________
१
' निर्गत्य ' - निःसृत्य, ' नदीप्रवाहा: ' - नदीनां धाराः, 'महोदधौ ' - समुद्रे, 'पतन्ति ' - पतनं कुर्वन्ति, परन्तु ' नदीहृदा: 'नदीपद्महृदादयः, 'रिक्ताः ' - शून्याः, जलहीना इत्यर्थः, 'नैव भवन्ति 'न जायन्ते, ' अम्बुधि : ' - समुद्रश्च, ' कर्हिचित् ' - कदापि, ' पूर्णः - भृतः, 'नास्ति ' - न भवति, कुतः ? इत्याह- नदीप्रवाह इत्यादि ' यत् ' - यस्मात् कारणात्, 'नदीप्रवाहोऽपि ' - नदीनां धाराऽपि, ' निरन्तरं ' - सततं, ' अविच्छिन्नतया ' - अत्रुटिततया, ' अतिशीघ्रम् ' - अतिक्षिप्रेण, वहति, यदि नदीहृदा रिक्ता भवेयुरंबुधिर्वा पूर्णः स्यात्तर्हि नदीप्रवाहोऽतिशीघ्रं निरन्तरमविच्छिन्नतया च न वहेदितिभावः, दृष्टान्तं दान्ते घटयति, इत्थमित्यादिना ' ही 'ति निश्चये, 'सागरान्तः ' - समुद्रमध्ये, ' नदीप्रवाहा इव ' - नदीनां धारा इव, ' भव्याः ' - भव्यजीवाः, 'इत्थम् ' -उक्तप्रकारेण, 'मुक्तौ - मोक्षे, 'परियन्ति ' - गच्छन्ति, यथा नदीप्रवाहाः समुद्रमध्ये यान्ति तथैव भव्या अपि मुक्तौ यान्तीतिभावः । ' एषः ' -उक्तः संसारः, ' हृदवत् ' - हृद इव, ' रिक्तः ' - शून्यः, न भवति, यथा नदीप्रवाहं वहतेऽपि हृदा रिक्ता न भवन्ति तथैव भव्यानां मुक्तौ गमनेऽपि एष संसारो रिक्तो न भवतीतिभावः । ' पयोधिवत् ' - समुद्र इव, 'मुक्ति: ' - सिद्धालयोऽपि, 'भृता' - पूर्णा, नैव भवति, यथा सततं नदीप्रवाहपतनेऽपि समुद्रः पूर्णो न भवति तथैव सततं भव्यगमनेऽपि मुक्तिः पूर्णा न भवतीतिभावः ॥ ४-६ ॥
मूलम् - दृष्टान्तदान्तिकयोरितीदं, साम्यं समालोचयतां नराणां । भवेत्प्रतीतिः परमार्हताना - मर्हद्वचस्येव न चापेरत्र ॥ ७ ॥
१. परमजैनानां । २. मिथ्यावाक्यवति ।