________________
।
SANSARSASARE
मूलम्-सिद्धालयः स्याल्लवणोदसोदरः संसार एषोऽस्ति नदीहृदोदरः।
नदीप्रवाहाश्च यथा महोदधौ, पतन्ति निर्गत्य नदीहृदान्तरात् ॥ ४॥ नदीहृदा नैव भवन्ति रिक्ता, न चाम्बुधिः कर्हिचिदस्ति पूर्णः। नदीप्रवाहोऽपि निरंतरं य-द्वहत्यविच्छिन्नतयातिशीघ्रं ॥५॥ इत्थं हि भव्याः परियन्ति मुक्ती, नदीप्रवाहा इव सागरान्तः।
संसार एष हृदवन्न रिक्तः, पयोधिवन्नैव भृतापि मुक्तिः ॥६॥ टीका-दृष्टान्तमाह-सिद्धालय इत्यादिना 'सिद्धालया'-सिद्धानां स्थानं मुक्तिरिति यावत् , ' लवणोदसोदरः स्यात्'लवणोदः लवणसमुद्रस्तस्य सोदर इव भ्राता इव यः सः लवणोदसोदरः, सोदरशब्दोऽत्र प्रस्तावात्तादृशार्थस्तेन लवणोदसदृशोऽस्ति इत्यवगंतव्यं, 'एष:'-प्रसिद्धः, संसारः, 'नदीहृदोदरोऽस्ति'-नदीनां गंगादीनां हृदाः पद्महृदादयस्तेषामुदरं मध्यस्थजलप्रदेशस्तदिव यः सः नदीहृदोदरसदृशोऽस्तीतिभावः, अत्र लुप्तोत्प्रेक्षावाचि पदं यं यथाग्निर्माणवकः इति दृष्टान्तं घटयति ।। नदीप्रवाहाश्वेत्यादिना 'च' शब्दश्चरणपूत्तौं, ' यथा'-येन प्रकारेण, 'नदीहृदान्तरात् '-नदीनां ये हृदास्तदनंतरात्तन्मध्यात्,
१. लवणोदः लवणसमुद्रः तस्य सोदर इव भ्राता इव यः स लवणोदसोदर सोदरशब्दोऽत्र प्रस्तावत्ताहशार्थः । २. नदीनां था गङ्गादीनां हृदाः पद्महृदादयस्तेषामुदरं मध्यस्थजलप्रदेशस्तदिव यः सः तत्सदृशः संसारः अत्र लुप्तोत्प्रेक्षावाचि पदं ज्ञेयं यथानिर्माणवकः । ३. मध्यात् । ४, अत्रुटितया । ५. गच्छन्ति ।
.
.
.
.
.
.
....