________________
roris
।
'कदापि '-कस्मिंश्चिदपि समये, 'नो पूर्यते'-न पूर्ति याति, 'च'-पुन:, ' एपः '-प्रसिद्धः, संसारोऽपि, 'भव्यशून्यःभव्यैर्भव्यजीव रहितः कदापि नो भवति 'एतत्'-पूर्वोक्तं, 'वाक्यम्'-वचनम् , 'परस्परद्वेपिवचोविलासैः'-मिथो द्वेषयुक्तवाग्विलासै, 'संगति'-सिद्धिं, 'न मङ्गति'-न गच्छति, न सिद्ध्यतीत्यर्थः । मुक्तिमार्गः सदा वहति, मुक्तिन पूर्यते, संसारश्च का भव्यशून्यो न भवति इत्येतानि वाक्यानि परस्पर विरुद्धार्थप्रतिपादकानि यतो यदि नाम मुक्तिमार्गः सदा वहति तहिं मुक्तः । पूर्तिः स्यात् संसारश्च भव्यशून्यः स्यान्न च तथा भवति तस्मादुक्तवाक्यस्य सिद्धिर्न भवितुं शक्नोतीतिभावः ॥ १-२॥
मूलम्-न हि व्यलीकं भगवद्वचोऽस्त्यदः, परं न चित्तेऽल्पधियामभिव्रजेत्।।
दृश्योऽस्ति दृष्टान्त इहैव लौकिको, यं शृण्वतां श्रोतृणां मनः स्थिरं ॥३॥ टीका-अस्योत्तरमाह-न हीत्यादिना 'अदः '-पूर्वोक्तं, 'भगवद्वचः '-सर्वज्ञवचनं, 'व्यलीकं '-मिथ्या, ‘न ह्यस्ति'-न भवति, तर्हि किमस्तीत्याह-परमित्यादिना 'परं '-परन्तु, ' अल्पधियाम्'-अल्पवुद्धिमता, 'चित्ते'-मनसि 'नाभिव्रजेत्'-न तिष्ठति, ' अल्पधीः विचारविषयो न भवतीतिभावः' दृश्य इत्यादि ' इहैव'-अस्मिन्नेव विषये, 'लौकिका'लोकसिद्धः, ' दृष्टान्तः '-निदर्शनम्, ' दृश्यः'-दर्शनीयोऽस्ति, 'यं'-दृष्टान्तं, ' शृण्वतां'-श्रवणकर्तृणां, 'श्रोतनृणां'श्रावकजनानां, 'मनः'- चित्तं, 'स्थिरं'-अचञ्चलम् भवति ॥३॥
१. आप्त। २. दृष्टान्तं ।
t
as
-