________________
96436
॥ अथ सप्तमोऽधिकारः॥ मुक्तिप्रवाहाविच्छिन्नतां संसारभव्याशून्यताञ्च द्वादशभिः श्लोकैराहमूलम्-प्रश्नस्तथैकः परिपृच्छयतेऽसकौ, सिद्धान्समाश्रित्य निजोपलव्धये ।
सर्वज्ञवाक्यात् किल मुक्तिमार्गको, वहन् सदास्ते करकस्य नालवत् ॥ १॥ नो पूर्यते मुक्तिरसौ कदापि, संसार एषोऽपि च भव्यशून्यः।
परस्परद्वेषिवचोविलासै-नं सङ्गतिं मगति वाक्यमेतत् ॥२॥ टीका-प्रसंगाद् मुक्तिविपये प्रश्नयति प्रश्नस्तथैक इत्यादिना 'तथे 'ति समुच्चये, 'असकौ'-वक्ष्यमाण एका प्रश्न परिपृच्छयते, कानुद्दिश्य परिपृच्छयते ? इत्याह-'सिद्धान् समाश्रित्येति'-सिद्धानुद्दिश्येत्यर्थः, किमर्थं परिपृच्छयते ? इत्याह-निजो. पलब्धये इति स्वकीयज्ञानार्थमितिभावः, प्रश्नस्वरूपमाह-सर्वज्ञेत्यादिना किलेति स्ववार्तायाम् 'सर्वज्ञवाक्यात् '-सर्वज्ञस्य वाक्येन यद्यथेतज् ज्ञायते यत् ' मुक्तिमार्गकः '-मुक्तेर्मार्गः, ज्ञानदर्शनचारित्ररूप इत्यर्थः, 'सदा'-सर्वदा, करकस्य'कमदाग्लो लवत् नालिकावत् , ' वहन् '-प्रवाहं कुर्वन् , ' आस्ते '-तिष्ठति, तथापि ' असौ '-प्रसिद्धा, 'मुक्तिः'-मोक्षा,
१. स्वकीयज्ञानार्थ । २ प्रशसायां प्रसिद्धौ वा स्वार्थे वा क प्रत्ययः। ३. मागि गतौ भौवादिको गत्यर्थः गच्छति।
0 30499496ROSSF96FICIS