SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ एतत् सिद्ध्यति, 'निजस्वभाव: ' - स्वस्वभाव:, ' अपैति '- याति नश्यतीतिभावः ॥ १० ॥ मूलम् -- इत्यादिदृष्टान्तभरेः स्वभावो, मौलो यथा याति तथैव जन्तोः । कर्मग्रहोऽयं सहजः प्रयाति, सिद्धत्वमाशस्य किमत्र चित्रम् १ ॥ ११ ॥ टीका -- फलितमाह- इत्यादिना ' इत्यादिदृष्टान्तभरैः - पूर्वोक्तादिदृष्टान्तसमूहैः 'एतत् ' सिद्ध्यति यत् ' यथा 'येन प्रकारेण, 'मौल: '- मूलजातः स्वभावः, 'याति ' - गच्छति, ' तथैव ' - तेनैव प्रकारेण, 'सिद्धत्वं '- सिद्धभावम्, आप्तस्य, ' जन्तो: ' - प्राणिनः, ' अयं ' - पूर्वोक्तः, ' सहज: ' - सहोत्पन्नः स्वाभाविक इत्यर्थः, 'कर्मग्रह: ' - कर्मग्रहणरूपः स्वभाव:, ' प्रयाति ' - गच्छति, दूरीभवतीत्यर्थः, ' अत्र ' - अस्मिन् विषये, 'चित्रम् ' - आश्रर्य किम् अस्ति ॥ ११ ॥ सिद्धात्मनः कर्मग्रहण निराकरणोक्तिलेशः षष्ठोऽधिकारः
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy