________________
ॐ
मूलम् - वायोस्तथा चञ्चलतास्वभावो, यो वर्तमानः सहजः समस्ति । खेलस्य मध्ये पवने निरुद्धे, कथं प्रयात्येष चलस्वभावः १ ॥ ९ ॥
टीका - दृष्टान्तरमाह - वायोस्तथेत्यादिना ' तथा ' शब्दः समुच्चये, 'वायो: ' - पवनस्य, ' यः सहज: ' - सहोत्पन्नः स्वाभाविक इति यावत्, चञ्चलतास्वभावः ’-अस्थिरत्वस्वभावः, ' वर्त्तमानः ' - प्रवृत्तिं कुर्वन्, ' समस्ति ' - विद्यते, ' एष चलस्वभाव: ' - चांचल्यस्वभावः, 'खलस्य मध्ये ' - दृप्त्या अभ्यन्तरे, ' पवने ' - वायौ, 'निरुद्धे ' - अवरोधं गते सति, 'कथं' - केन प्रकारेण, ' प्रयाति ' - गच्छति । यथा खले निरुद्धस्य वायोः सहजोऽपि चलस्वभावोऽपैति तथैव सिद्धानां कर्मग्रहणस्वभावोऽपि तद्दशायामपैतीतिभावः ॥ ९ ॥
मूलम् - आहारमुख्याः सहजाश्चतस्रः, संज्ञा इमाः प्रोज्झ्य शुकादयोऽमी । सिद्धाः प्रसिद्धाः परब्रह्मरूपाः, जातास्ततोऽपैति निजस्वभावः ॥ १० ॥
टीका - अत्रैव दृष्टान्तरमाह - आहारमुख्या इत्यादिना 'अमी ' - एते, ' प्रसिद्धाः ' - आख्याताः, 'शुकादयः ' - शुकादिमुनयः, 'इमाः ' - प्रसिद्धाः, ' सहजा : ' - सहोत्पन्नाः स्वाभाविका इति यावत्, ' आहारमुख्याः ' - आहारादिका आहारभयमैथुनपरिग्रहरूपी इत्यर्थः, ' चतस्रः ' - चतुः संख्याकाः, ' संज्ञा : ' - अभिलाषान्, 'प्रोज्झ्य ' - त्यक्त्वा, ' सिद्धाः ' - सिद्धिं गताः सन्तः, ' परब्रह्मरूपा: ' - परब्रह्मस्वरूपाः, ' जाता: ' - अभवन्, फलितमाह तत इत्यादिना ' ततः ' - तस्मात् कारणात् १. खलस्य दृप्त्यां । २ शुकादय शैवशासनप्रसिद्धाः ।