________________
दीका - स्वभाव परिवर्तन एव पुनर्रष्टान्तमाह-यशुम्बकेत्यादिना 'चुम्बकग्रावणि' - चुम्बकपापाणे, यो, 'लोहग्राही 'लोहाकर्षकः स्वभावः, 'आस्ते ' - विद्यते, 'राकः - स, 'सहजः - सहोत्पन्नः स्वाभाविक इति यावत्, 'अस्ति - विद्यते, परन्तु ' तस्मिन् ' - चुम्बकग्रावणि, ' मृते - अग्निना भस्मीभूते राति, 'वा' - अथवा, 'इतरयोगयुक्त ' - तदर्पहारिणौपधादिना संयुक्त राति, ' रा: ' - स्वभावः, 'अपैति ' - याति दान्ते योजनामाह - इत्थमित्यादिना ' इत्थम् ' - अनेन प्रकारेण, ' एतेषु - सिद्धेष्वपि, ' कर्मयोगः - कर्मसंबन्धः, अपैति ॥ ७ ॥
मूलम् - बीजं तथाकुरभवं दधाति, मौलात्स्वभावादविकारि यावत् ।
तस्मिंस्तु दग्धे न किलाङ्कुरोद्भवं, एवं तु सिद्धेषु न कर्मबन्धः ॥ ८ ॥
टीका - दृष्टान्तमाह - बीजमित्यादिना ' तथा ' शब्दः समुचये, ' यावदिति ' - यावत्कालपर्यन्तमित्यर्थः, ' अविकारि 'विकाररहितम् भवति तावत्, ' बीजं ' - धान्यादि, 'मौलात् ' - मूलजातात्, स्वभावात्, 'अंकुरभवं ' - अंकुरोत्पत्ति, अंकुरोल्पादनशक्तिमितिभावः, ' दधाति ' - धत्ते, 'तु ' - परन्तु, ' तस्मिन् ' - चीजे, ' दग्धे ' - अग्निना भस्मीभूते सति, 'किले 'ति निश्रये, ' अंकुरोद्भवः ' -अनुरस्योत्पत्तिर्न भवति, दान्ते योजनमाह एवं त्वित्यादिना एवं वि 'ति - एवमेवेत्यर्थः, 'तु' शब्द एवकारार्थः, ' सिद्धेषु - सिद्धिं गतेष्नात्मसु ' कर्मबन्धः - कर्मसंयोगो न भवति ॥ ८ ॥
१. धान्यादि । २. उत्पत्ति । ३. उत्पत्तिः ।