________________
RSSRS
'मन्त्रयोगात् '-मन्त्रसंबन्धात्, ' तथा ' शब्दः समुच्चये, 'औषधीमिः'-औषधैश्च, 'बद्धः'-बंधनं प्राप्तः विनष्टदाहकत्वगुणः सन्नितिभावः, 'एषः'-अग्निः, 'विशन्तम् न दहेदिति'-प्रवेशकर्तारं जनं दग्धुं न शक्नोतीतिभावः, 'तथा' शब्दः समुच्चये, 'अग्निं '-वह्निम् , ' अनंतं-भुञ्जानं, 'चकोरकं '-चकोरनामकं पक्षिणं, 'विगतस्वभावः'-विनष्टस्वभावः सन् , 'वह्निः'-अग्निः 'नो दहेत् '-दग्धुं न शक्नोति ॥५॥
मूलम्-तथाभ्रकं हेम च रत्नकम्बलं, सिद्धं च सूतं न दहेडुताशनः।।
तदा तु या दाहकता विभावसौ, मौली ब्रजेत्काथ निगद्यतामिति ॥६॥ टीका-अत्रैव पुनः पुष्टिमाह-तथाभ्रकमित्यादिना ' तथा' शब्दः च शब्दौ च समुच्चये, 'अभ्रक'-गिरिजामलम् , 'हेम'-सुवर्णम् , ' रत्नकम्बलं '-सिद्धमौषधादिभिर्भवितं, 'सूतं'-पारदं च, 'हुताशनः '-अग्निः , 'न दहेत्'-दग्धुं न शक्नोति, फलितमाह-तदा वित्यादिना' तदा'-तस्मिन् काले, 'विभावसौ'-वह्नौ, या 'मौली'-मूलजाता, दाहकत्वम् अस्ति प्रश्ने 'क'-कुत्र, 'बजेद्'-गच्छति, ' इति '-एतद्, 'निगद्यताम् '-उच्यताम् भवता ॥६॥
मूलम्-यश्चुम्बकग्रावणि लोहग्राही, स्वभाव आस्ते सहजा सकोऽस्ति।
तस्मिन्मृते वेतरयोगयुक्त,-ऽपैतीत्यमेतेष्वपि कर्मयोगः ॥ ७॥ १. अग्नौ। २. हादिपाठात् न पूर्वस्य दीर्घः । ३. सहोत्पन्नः । ४. मृते अग्निना भस्मीभूतेऽथवान्यौषधादिना तदर्पहारिणा संयुक्ते । ५. यातीत्यर्थः । ६. सिद्धेषु । .
SAASEAN