________________
'
' अग्न्यस्थिरभावसंज्ञः ' - अग्नौ स्थिराभावनामका स्वभाव:, ' मौल: '- मूलजातः, अस्ति, 'तु' - परन्तु, 'यदा ' - यस्मिन् काले, ' तारक परिकर्मणा कृतः - ताशभावनाभिर्विहितो भवति, तदा तस्मिन् काले, ' च ' शब्दचरणपूर्ती, ' वहिगतः ' - वहिं प्राप्तः, ' स्थिरः - चांचल्यरहितः, ' तिष्ठेत् ' - भवेत् ॥ ३ ॥
मूलम् - यथा पुनर्दाहकतागुणोऽग्ना वस्ति स्वभावो ननु मूलजातः । अस्यापि नाशोऽस्ति तथाप्रयोगात्, सेन्तं रांतीं नैव दहेत्कदापि ॥ ४॥ टीका - दष्टान्तरमाह - यथेत्यादिना ' यथा ' पुनरिति यथा चेत्यर्थः, 'नन्ति 'ति निश्रये, ' अग्नौ ' - वहौ, 'दाहकतागुणः ' - दाहकत्वगुणविशिष्टः स्वभावः, 'मूलजात: ' - मौलोऽस्ति, परन्तु ' तथाप्रयोगात् ' - तद्वीर्योपघातकारि सामग्रीसंबन्धात्, 'अस्यापि ' - दाहकत्वस्वभावस्यापि 'नाशोऽस्ति ' - नाशो भवति, अत्रैव दृष्टान्तरमाह - सन्तमित्यादिना 'सः' - अग्निः, ' सन्तं ' - साधुं सत्यवादिनम् इत्यर्थः तथा ' सतीं ' - पतिव्रतां शीलवतीमितिभाव', 'कदापि ' - कदाचित्, 'नैन दहेत् ' - न दहति, स्वभावनाशाद् दग्धुं न शक्नोतीतिभावः ॥ ४ ॥
मूलम् - बद्धो यथाप्येष च मन्त्रयोगात्, तथौषधीभिर्न दहेद्विशन्तम् ।
अनन्तमग्निं च चकोरकं तथा, वह्निर्दहेन्नो विगतस्वभावः ॥ ५ ॥ टीका - अग्निस्वभावनाशविषय एव पुष्टिमाह-वज्र इत्यादिना ' यथा ' - अपीति अन्यचेत्यर्थः, ' च ' शब्दचरण पूर्ची, १. तद् वीर्योपघातकारिसामग्री सम्बन्धात् । २. सन्तं साधुं सत्यवादिनम् । ३. सतीं शीलव्रतवतीं सीतादिकां ।