________________
दिना यत् 'जीवस्य'-आत्मनः, 'कर्मग्रहणे'-कर्मणामादाने, स्वभावः अस्ति, 'तदा'-तर्हि, 'सः'-जीवा, 'कर्मग्रहाख्यं '-कर्मग्रहणं नामकं, 'मौलं '-मूलजातं, 'सहज'-सहोत्पन्नं, 'तं'-खभावं, 'विहाय '-त्यक्त्वा, 'कथं '-केन र प्रकारेण, 'सिद्धः'-सिद्धिं गतः, ' भवेत् ' स्यात् , सिद्धः कथं भवितुम् शक्नोतीतिभावः, ' भोः' इत्यामंत्रणे, 'एषः'- 8 प्रस्तूयमानो विचारः, 'परिपठ्यतां '-विचार्यताम् ॥ १॥ मूलम्-कर्मात्मनोर्यद्यपि मौलसङ्ग-स्तथापि सोमय्यतथोपलम्भात् ।
कर्मग्रहं प्रोज्झ्य शिवं समेतः, सिद्धो भवेदत्र निदर्शनं यत् ॥२॥ टीका-अस्योत्तरमाह-कर्मात्मनोरित्यादिना यद्यपि 'कर्मात्मनोः'-कर्मजीवयोः, 'मौलसंगः'-अनादिसंबन्धः, अस्ति, 'तथापि सामय्यतथोपलम्भात् '-तथाविधसामग्रीलाभात्, 'कर्मग्रहं '-कर्मग्रहणस्वभावं, 'प्रोज्झ्य'-त्यक्त्वा, 'शिवं '-शिवपदं, ' समेत:'-प्राप्तः, 'सिद्धो भवेत् '-सिद्धिंगतः स्यात् , ' अत्र '-अस्मिन् विषये, 'निदर्शनं '-दृष्टान्तः, अस्ति यदित्युत्तरवृत्तान्वयि विज्ञेयम् ॥ २॥
मूलम्-सूते यथा चञ्चलतास्वभावो, मौलस्तथाग्न्यस्थिरभावसंज्ञः।
___ यदा तु तादृक्परिकर्मणा कृत-स्तदा स्थिरो वह्रिगतश्च तिष्ठेत् ॥३॥ टीका-दृष्टान्तमेवाह-सूते इत्यादिना 'यथा'-येन प्रकारेण, 'सूते '-पारदे, 'चञ्चलस्वभावः', 'तथेति समुच्चये, १. अनादिसम्बन्ध. । २. तथाप्रकारसामग्रीप्रापणात् । ३. गत.। ४. ताशभावनाभिर्विहितः ।
RSASARAAR
-
-