________________
-
AIGARS
एव, 'वहनस्ति'-प्रवहनं कुर्वन् विद्यते, फलितमाह-शास्त्रेष्वित्यादिना 'शास्त्रेषु' 'अधीतेषु'-पठितेषु सत्सु, यथा 'शास्त्रनाशः'-शास्त्रस्यापायः, न भवति ' तथैव'-तेनैव प्रकारेण, 'सिद्धेषु'-सिद्धि गतेषु, सर्वभव्यजीवेषु, 'भवस्य '-संसारस्य, 'अंत:'-नाशो न भवति । सुबुद्धिमतो जनस्य सर्वशास्त्रपठनेऽपि यथा शास्त्राक्षरैरस्य हृदयं पूर्ण न भवति तथैव सततं मुक्तिमार्गवहनेऽपि मुक्तिः पूर्णा न भवति, शास्त्राक्षरगमनेऽपि यथा शास्त्रस्य नाशो न भवति तथैव भव्यजीवगमनेऽपि संसारस्य नाशो न भवतीत्यर्थः ॥ ८-११॥ मूलम्-दृष्टान्तदाान्तिकभावनेयं, विज्ञैः स्वयं चेतसि चिन्तनीया ।
एवं ह्यनेकेभिनिषन्ति भूयो, दृष्टान्तसङ्घा अपरेऽपि योज्याः ॥१२॥ टीका-उपसंहरति दृष्टान्तेत्यादिना 'इयं'-पूर्वोक्ता, ' दृष्टान्तदान्तिकभावना'-दृष्टान्तदार्टान्तिकसंबंधिनी विचारणा, 'विज्ञैः'-पंडितैर्जनैः, 'चेतसि'-चित्ते, ' स्वयं-स्वत एव, 'चिंतनीया'-विचारणीया, 'ही 'ति निश्चये, 'एवम् '-उक्तप्रकारेण, 'भूयः'-पुनः, 'अनेके '-बहवः, 'अपरेऽपि '-अन्येऽपि, ' दृष्टान्तसङ्घा!'-दृष्टान्तसमूहाः, 'अभिनिषन्ति '-विद्यन्ते, 'योज्याः'-उक्तविषये घटनीयाः ॥ १२ ॥
संसारशून्यता-मोक्षाभरणतादृष्टान्तोक्तिलेशः
सप्तमोऽधिकारः समाप्त:
wwwwww