________________
त्मनां संसारपृथक्त्वेन निष्क्रियत्वमुद्घोपितम् ॥ ९॥
विनेन्द्रियैरपि सिद्धानामनन्तसौख्यमष्टभिः श्लोकैराहमूलम्-सिद्धेषु पूज्या ! न किल क्रियेन्द्रियं, बुद्धीन्द्रियं नो न च किञ्चनाङ्गम् ।
अनन्तसौख्यं कथमाप्यते तै-यज्ज्ञानमेतेपु तदेव सौख्यम् ॥१०॥ टीका-सिद्धानां सुखभोगविपये प्रश्नयति-सिद्धेवित्यादिना ' हे पूज्याः!'-हे पूजनीयाः !, 'किले ' ति-स्ववार्तायाम् , ' सिद्धेषु '-सिद्धात्मसु, ' क्रियेन्द्रियं '-कर्मेन्द्रियं हस्तादिकमित्यर्थः, नास्ति, 'बुद्धीन्द्रियं '-ज्ञानेन्द्रियं चक्षुरादिक-28 मित्यर्थः, 'नो'-नैवास्ति, 'च' शब्दः समुच्चये, 'किश्वन'-किमपि, 'अज'-मुखादिकं, न अस्ति तर्हि तैःसिद्धात्मभिः, 'अनन्तसौख्यम् -अन्तरहितं सुखं, 'कथं '-केन प्रकारेण, 'आप्यते '-प्राप्यते लभ्यते इति यावत् अस्योतरमाह-यदित्यादिना 'एतेषु'-सिद्धात्मसु, यद्ज्ञानं अस्ति तदेव ।। सौख्यं '-सुखमुच्यते ॥१०॥ मूलम्-यथेह लोके किल कश्चिदङ्गी, ज्वरादिवाधााविधुरः कदाचित्।
निद्रां प्रकुर्वन्निति तंजनैस्तु, सुखं करोत्येष न बोधनीयः ॥११॥
इत्युच्यते तस्य न त किञ्चि-च्छ्रोतःसुखं नापि क्रिया निरीक्ष्यते ॥ १. पीडितः । २. तस्य निद्राणनरस्य तदीयस्वकबन्धुजनैः । ३. जागरणीयः । ४. निद्रावस्थायां । ५. इन्द्रियसुखं । ६. क्रिया करपादादिसमुद्भता ।
VISISSAS54854OSKOSTOSOS16089