________________
टीका-उक्तविषय एव पुष्टिमाह-तथा चेत्यादि ' तथा चे "ति-अन्यदपि श्रूयतामित्यर्थः, 'सिद्धेषु '-सिद्धात्मसु यत् 'सुखम्'-सौख्यमस्ति, (तत्) 'वैद्यकर्मक्षयज'-वेदनीयकर्मनाशेन जन्यं सातासातवेदनीयद्वयकर्मनाशभवमित्यर्थः, 'वदन्ति'कथयन्ति, 'तत्-तस्मात् कारणात् , ' ही 'ति निश्चये, 'कर्म' 'सिद्धसौख्ये '-सिद्धानां सुखे सिद्धात्मनां सुखस्येत्यर्थः, "हेतु:'-कारणं, न भवति, ' यत् '-यस्मात् कारणात् , 'कर्म' 'सान्तम्'-अंतेन सहितम् , अस्ति, 'एषु'-सिद्धात्मसु, 'सुखं '-सौख्यम् , 'अनन्तम् '-अन्तरहितम् अस्ति ॥८॥ मूलम्-यद्विश्ववृत्तान्तसमुत्थनृत्त-प्रेक्षाप्रभूतं सुखमाश्रितानाम् ।
सिद्धात्मनां नित्यसुखं प्रवर्त्तते, यथा नृणामद्भुतनृत्यदर्शिनाम् ॥९॥ टीका-सिद्धानां कर्मानाश्रयत्व एव पुनः पुष्टिमाह-यद्विश्वेत्यादिना ' यत्'-यस्मात् कारणात् , 'सिद्धात्मनां 'सिद्धजीवानां, 'नित्यसुखं'-शाश्वतं सुखं, 'प्रवर्त्तते '-भवति, कथंभूतं सुखमित्याह-विश्वेत्यादि 'विश्वस्य'-जगतः, 'वृत्तांतेन'-व्यवहारेण, 'समुत्थम् '-उत्पन्नं, यवृत्तं-नर्तनं, तस्य 'प्रेक्षा'-दर्शनं, तया तस्या वा 'प्रभूतम् '-उत्पन्नं, कथंभूतानां सिद्धात्मनां ? 'सुखमाश्रितानां'-सुखं प्राप्तानां, अत्र दृष्टान्तमाह-यथेत्यादिना 'यथा'-येन प्रकारेण, 'नृणाम्'मनुष्याणाम् , 'नित्यसुखं '-सुखं भवति, कथंभूतानाम् नृणाम् ? ' अद्भुतनृत्यदर्शिनाम् '-विचित्रनाटकद्रष्टृणाम् , यथाऽद्भुतनृत्यदर्शनेन नृणां सुखं भवति तथैव संसारवृत्तान्तोत्पन्ननृत्यदर्शनेन सिद्धात्मनां सुखं भवतीत्यर्थः, एतेन सिद्धा
१. दर्शन ।
55555