________________
-
-
-
OS OSSOSTOSSSSSSSSSSSSS
जितेन्द्रियस्याप्यथ योगिनोऽपि, तुष्टस्य किन्निद्रहणे न वाञ्छा ॥ ६॥ यद्वा न पात्रे परिमाति किञ्चित्, पूर्णे तथा सिद्धिगता हि सिद्धाः।
सदा चिदानंदसुधाप्रपूर्णा, गृह्णन्ति नो किश्चिदपीह कर्म ॥ ७॥ टीका-पुनदृष्टान्तद्वारेण सिद्धानां कर्मानाहित्वमाह-लोके यथेत्यादिना 'यथा'-येन प्रकारेण, 'लोके '-संसारे, 'क्षुत्तृपया '-बुभुक्षया पिपासया च, 'विमुक्तात्मनः '-विमुक्तस्य जीवस्य, अत एव ' सुदृप्तस्य '-सम्यक्तया वृप्तिमवाप्त- || स्य, 'तृप्तिकालं '-तृप्तिकालमर्यादा न भवति, अथे 'ति-अनन्तरे, 'तुष्टस्य'-सन्तोपं प्राप्तस्य, 'जितेन्द्रियस्यापि '-|| इन्द्रियजितोऽपि, योगिनोऽपि '-योगकर्तुरपि, 'किञ्चिद् ग्रहणे'-कस्यापि वस्तुन आदाने, वान्छा'-अभिलापो न | भवति, 'किञ्चिद्' इति क्रियाविशेषणम् वावगन्तव्यम्, 'यद्वा'-अथवा, ' पूर्णे'-भृते, 'पात्रे'-भाजने, 'किञ्चित् 'किमपि, 'न परिमाति'-नांतः प्रविशति, ' तथा '-तेनैव प्रकारेण, ' ही 'ति निश्चये, 'इह'-अस्मिन् लोके सिद्धान्ते वा, | ' सिद्धाः '-सिद्धात्मानः, 'किश्चिदपि '-किमपि कर्म, 'नो गृहंति -नाददते, कथंभूताः सिद्धाः ? ' सदा-सर्वदा, 'चिदानंदसुधाप्रपूर्णाः '-ज्ञानामृतेन आनंदामृतेन च परिपूर्णाः ॥६-७॥ मूलम्-तथा च सिद्धेषु सुखं यदस्ति, तैवेद्यकर्मक्षयजं वदन्ति ।
तत्कर्म हेतुर्न हि सिद्धसौख्ये, यत्कर्म सान्तं सुखमेष्वनन्तम् ॥ ८॥ १. तत् सुखं सातासातवेदनीयव्यकर्मक्षयनाशभवं । २. तस्मात्कारणात् ।
-SC25555555
-
--