________________
टीका - अस्योत्तरमाह - सत्यमित्यादिना 'सत्य' मिति - तव कथनं सत्यमस्तीत्यर्थः, परन्तु 'यतः ' - यस्मात् कारणात्, ' तैजसेत्यादि ' - तैजसकार्मणनामकशरीरसंबंधस्य, ' विनाशभाव: ' - विनाशत्वम् अस्ति, ' तेन ' - कारणेन, 'सुकर्मणां - सुष्ठु कर्मणाम्, 'गृहीत्ययोगात् ' - ग्रहणस्य (अ) संबन्धात् सिद्धात्मानः कर्माणि न लान्तीति पंचमहाव्रतस्य वाक्यानुषञ्जनं प्रति हेतुं (तुः) वेदितव्यम् (व्यः), द्वितीयं हेतुमाह - ज्योतिरित्यादिना 'ज्योतिचिदानन्दभरैथेति ' -ज्योतिर्भरेण चिद्मरेणानंदभरेण चेत्यर्थः, करणे तृतीया, ' तृप्त्या: ' तृप्तिभावात्, तृतीयं हेतुमाह - सुखेत्यादिना 'सुखासुखयोः ' - सुखदुःखयोः, 'प्रापणस्य'प्राप्तेः, 'हेतु:' - कारणं, यः कालः स एव 'प्रयोक्ता' - प्रेरणकर्ता, तस्य 'अभावाद्' - अविद्यमानत्वात् कालग्रहणमुपलक्षणं तेन स्वभावादीनामपि ग्रहणं वेद्यम् सुखदुःखप्राप्तिहेतुभूतानाम् प्रेरकाणां कालादीनामभावादित्यर्थः, चतुर्थं हेतुमाह - अथेत्यादिना 'अथ ' शब्दः समुच्चये, 'निष्क्रियत्वात्'- क्रियारहितत्वात् सिद्धात्मनाम्, पञ्चमं हेतुमाह - यद्वेत्यादिना 'यद्वा' - अथवा, 'तेषां' - सिद्धात्मनां, 'सुखान्यपि ' - सौख्यान्यपि, 'अनन्तानि ' - अन्तरहितानि, ' भवन्ति ' - वर्तन्ते, 'अमूनि' - प्रस्तूयमानानि कर्माणि तु, ' सान्तानि ' - अन्तसहितानि भवन्ति, इतीवेतिहेतोरित्यर्थः, 'कर्म तत्सौख्यभरस्य' - सिद्धानां सौख्य समूहस्य, 'हेतुर्भवेनो' - हेतुर्न भवितुं शक्नोतीत्यर्थः, कुत इत्याह-यदित्यादि ' यत् ' - यस्मात् कारणात्, ' अतुल्यमानादिति ' - तुल्यपरिमाणाभावादित्यर्थः, फलितमाह - इत्यादिकैरित्यादिना ' इत्यादिकैः ' - एतत् प्रभृतिभिर्हेतुभिः कारणैः एव, नित्या अविचल - स्थिरैकस्वभावाः ' सिद्धात्मानः ' - सिद्धजीवाः, ' ही 'ति निश्वये, ' कर्माणि ' ' न लान्ति - न गृह्णन्ति ॥ ३-५ ॥
मूलम् - लोके यथा क्षुत्तृषया विमुक्तात्मानः सुतृप्तस्य न तृप्तिकालं ।