________________
कथंभूताः सिद्धा जीवाः? 'अनन्तचतुष्टयेद्धाः'-अनंतज्ञानानंतदर्शनानंतसुखानंतवीर्यलक्षणानंतचतुष्टयेन प्रदीप्ताः प्रसिद्धा वा, पुनः कथंभूताः १ ' परमेष्ठिसंज्ञाः '-परमे पदे तिष्ठन्तीति परमेष्ठिना सैव संज्ञा नाम येषां ते, 'तथा' 'ते सिद्धात्मान:सिद्धजीवाः, 'कर्माणि' ' कथं न समाददन्ते '-कुतो न गृह्णन्ति समाङ्पूर्वो ददिरयं भौवादिकः, 'तत्-तस्मात् कारणात्, 'सौख्यसत्त्वात् '-सुखभावात् , ' सुकर्माणि '-सुष्टु कर्माणि, 'लाता'-गृह्णताम्, 'एषां'-सिद्धजीवानामपि, 'का निषेधकः' का निवर्त्तकोऽस्ति ? ॥१-२॥ मूलम्-सत्यं यतस्तैजसकार्मणाख्य-शरीरयोगस्य विनाशभावः।।
सुकर्मणां तेन गृहीत्ययोगा-ज्योतिश्चिदानन्दभरैश्च तृप्त्याः ॥३॥ सुखासुखप्रापणहेतुकाल-प्रयोक्त्रभावादथ निष्क्रियत्वात् । । यद्वाप्यनन्तानि सुखानि तेषां, कर्माणि सान्तानि भवन्त्यमूनि ॥ ४ ॥ इतीव तत्सौख्यभरस्य कर्म, हेतुर्भवेन्नो यदतुल्यमानात् ।
इत्यादिकैर्हेतुभिरेव सिद्धा-त्मानो न कर्माणि हि लांति नित्याः ॥५॥ १. तेन तैजसकार्मणलक्षणकर्मग्रहणयोग्यशरीराभावेन शोभनकर्मणां ग्रहणस्यायोगादसम्बन्धादभावादित्यर्थः सिद्धात्मानो न कर्माणि लान्तीत्युत्तरसूत्रेण सम्बन्धः एवं सर्वैरपि हेतुभिर्वाक्यपरिसमाप्तिः कर्तव्येति। २. सिद्धजीवानां । ३. तेषां सिद्धात्मनां यदनन्तं सौख्यं तद्भरस्य ।