________________
जीवा, 'ईदृशं'-पूर्वोक्तलक्षणं, ' वपुः '-शरीरं, 'दधाति '-धत्ते, कथंभूतो भवी ? ' अदृश्य एव'-दृष्टमयोग्य एव, कथंभूतं वपुः १ ' संदृश्यमानं '-दृष्टेर्विपयम् , तर्हि ' ही 'ति निश्चये, ' असौ'-अयम् , ' अरूपिरूपिद्वयसंगमः'-अरूपी जीवो रूपीणि देहतदाश्रिताङ्गकर्मक्रियादीनि शेषपोषस्निग्धरूक्षादिदेहधर्मा वा तेषां यद्वयं युगलं तस्य सङ्गमः -संबन्धा, 'विचार्यमाण: '-चिन्त्यमानः सन्, 'कौतुकं '-कुतूहलं, 'न कुरुते ' कौतूहलं कुरुत एवेति भावः ॥ ८॥ मूलम्--कर्पूरहिङ्ग्वादिकसुष्टुदुष्टु-वस्तूत्थगन्धा गगनं श्रिता यथा।
तिष्ठन्ति यावस्थिति तद्वदेव भोः, कर्माणि जीवं परिवृत्य सन्ति ॥९॥ दीका-जीवस्य कर्मभिरावृतत्वे दृष्टान्तमाह-कर्पूरेत्यादिना 'कर्पूर'-धनसार, हिंगुरामठम् इत्यादिकानि सुष्टुदुष्टु च वस्तूनि तेभ्य ' उत्था'-उत्पन्ना ये गंधार, ' यथा'-येन प्रकारेण, 'यावस्थिति'-स्थितिकालपर्यन्तम् , 'गगनम् - आकाशं, 'श्रिता:'-आश्रिताः तिष्ठन्ति 'तद्वदेव '-तथैव, 'भो' इत्यामंत्रणे, 'कर्माणि' 'जीवम् '-आत्मानं, 'परिवृत्य '-आवृत्य, ' सन्ति -तिष्ठन्ति ॥९॥ मूलम्-इत्यादिभिदृष्टनिदर्शनैस्तथा-गुणात्मकैः कर्मभिरेष आत्मकः।
आश्रीयते निर्गुणकोऽपि निश्चित-मात्मा ततः कर्मचितो भवी भवेत् ॥१०॥ १. यावत् कालं यस्य याइशी स्थितिर्वर्तनं स्थितिकालमित्यर्थः । २. आश्रित्य । ३ दृष्टान्तैः । ४. स्वरूपैः । ५. युक्तः। ६. कर्मयुक्तो भवी संसारी भवेत् कर्ममुक्तस्तु तद्व्यतिरिक्तः सिद्धो भवेदिति व्यतिरेकद्वारेण पूरणीयं ।।
RAMARॐ