SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ टीका - फलितमाह-इत्यादिभिरित्यादिना ' तथा ' - पूर्वोक्तप्रकारेण ' इत्यादिभिः ' - पूर्वोक्तैः, 'दृष्टनिदर्शनैः - प्रत्यक्षुदृष्टान्तैः, एतत् सिद्ध्यति यत् (तः ) ' एपः ' - प्रस्तूयमानः, ' आत्मकः '- जीवः, 'कर्मभिः' 'आश्रीयते' - अवलम्ब्यते, कथंभूतैः कर्मभिः १ ' गुणात्मकैः ' - गुणस्वरूपैः, ' ततः ' - तस्मात् कारणात्, 'निश्चितमिति ' - एतत् सिद्धमित्यर्थः, ? किमित्याह - यत् ' आत्मा ' जीवः, 'भवी' - संसारी, ' भवेत् ' भवति, कथंभूत आत्मा ! 'निर्गुणकोऽपि ' - गुणै रहितोऽपि पुनः कथंभूतः १ कर्मचितः ' - कर्मभिर्युक्तः । कर्मयुक्तो जीवः संसारी कर्ममुक्तस्तु सिद्धो भवेदिति ॥ १० ॥ मूर्त्तामूर्त्तयोः कर्मात्मनोराधाराधेयभावसंबन्धोक्तिलेशः चतुर्थोऽधिकारः । DOING
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy