________________
विषयाः, एते सर्वे आत्मनैव क्रियन्ते । फलितमाह-' किं कि 'मित्यादिना तर्हि 'अयं '-प्रस्तूयमानः, ‘वपुर्गतोऽपि 'शरीरे स्थितोऽपि आत्मा, ' अत्र'-अस्मिन् संसारे, ' किं किं न धत्ते'-किं किं न दधाति, सर्वमेव दधातीति भावः ॥६॥ मूलम्-मा वोच एतद्धि शरीरजा गुणा, अमी यतोऽस्मिन् गतपंचके घने।
__ दृश्यन्त एते न हि केचनाश्रिता-स्ततो वपुर्गा न गुणास्तु जीवगाः ॥७॥ टीका-अत्र शंकां परिहर्तुमाह-मा वोच इत्यादि 'हि' शब्दश्चरणपूत्तौँ, 'एतद् '-वक्ष्यमाणं, 'मा वोचः'-मा बेहि, 'यत् । 'अमी'-पूर्वोक्ता गुणाः, ' शरीरजाः'-शरीरेण जन्या, सन्ति, कुत इत्याह-यदि( यत इ)त्यादि ' यतो'-यस्मात् कारणात् , ' गतपंचके '-जीवरहिते, (अस्मिन्) 'घने'-शरीरे, 'एते'-पूर्वोक्ताः 'केचन'-केपि, 'आश्रिताः'-आधेयः | भूताः गुणाः, 'न हि दृश्यन्ते '-नावलोक्यन्ते, ' तत् (तः)'-तस्मात् कारणान्, 'एते '-गुणाः, 'न वपुर्गाः'-शरीर-5 जन्याः न सन्ति, 'तु'-किन्तु, 'जीवगाः'-जीवस्था गुणा इति ॥ ७॥ मूलम्-संदृश्यमानं पुनरीदृशं वपु-रदृश्य एवैष भवी दधाति चेत् ।
अलैपिरूपिद्वयसङ्गमो ह्यसौ, विचार्यमाणः कुरुते न कौतुकम् ।। ८॥ टीका-उक्तविषयमेव दृढयति-संदृश्यमानमित्यादिना 'पुनः' चेद्यदि, 'एषः '-प्रस्तूयमानः ‘भवी'-भववत्ती १. शरीरे । २ गुणाः । ३. अरूपी जीवः रूपीणि देहतदाश्रिताङ्गकर्मक्रियादीनि शोषपोषस्निग्धरूक्षादिदेहधर्मा वा तेषां यद्वयं युगलं तस्य सङ्गमः सम्बन्धः ।