________________
ॐ
पुनः कस्याधारम् ? ' अमूर्तिमतः '-अमूर्तस्य सिद्धधर्माधर्मास्तिकायादेरित्यर्थः, 'च' शब्दः समुच्चये, फलितमाह-अर्थ
स्येत्यादिना 'यथा'-येन प्रकारेण, 'विचक्षणाः '-विद्वांसः, 'अविनश्वरम् ' अविनाशि, तथा ' महत् '-बृहत् नमः, 5 'आधारम् '-आश्रयम् , ' आख्यन् '-कथितवन्त, 'सर्वस्यार्थस्य '-सर्वद्रव्यस्य, धर्माधर्मपुद्गलास्तिकायलक्षणस्येत्यर्थः,
' तथा '-उक्तप्रकारेण, 'एषः'-प्रस्तूयमानः, 'आत्मा'-जीवा, ' सर्वाणि '-सकलानि, 'रूपीणि'-रूपयुक्तानि द्रव्याणि, 'अनारतं'-निरन्तरम् , ' कथं '-केन प्रकारेण, 'वहति'-दधाति इति त्वं विचारय । कथंभूतं(त:) आत्मा? 'न रूपवानपि'रूपरहितोऽपि । यथा प्रलयकाले विश्वं जगत्कर्ता यथा च नमो गुर्वादीनि वस्तूनि दधाति तथैवारूप्यप्यात्मा सर्वाणि रूपीणि द्रव्याणि दधातीति भावः ॥४-५॥ मूलम्-मिथ्यात्वदृष्टिभ्रमकर्ममत्सराः, कषायकन्दर्पकला गुणास्त्रयः।
क्रियाः समग्रा विषया अनेकधा, किं किं न धत्तेऽत्र वपुर्गतोऽप्ययम् ॥ ६ ॥ टीका-अत्र पुनः पुष्टिमाह-मिथ्यात्वेत्यादिना 'मिथ्यात्वदृष्टि(s)'-मिथ्यात्वयुक्तं दर्शनम् , 'भ्रमो'-भ्रान्तिः, 'कर्ममत्सरा:'-कर्मविषया मत्सरा, अन्येऽशुभद्वेषाः, 'कषायाः'-क्रोधादयः, 'कंदर्पः'-कामः, 'कला:'-चतुःषष्टिसंख्याकानि कौशलानि, 'त्रयः'-त्रिसंख्याका गुणाः सत्वादयः, 'समग्राः '-सर्वाः, ' क्रिया:'-चेष्टाः, 'अनेकधा'-नानाविधा
१. पुरुषस्त्रीसम्बन्धिसर्वकलामीलने (७२-६४) १३६ कला भवन्ति । २. सत्वादयः। ३. आत्मा।
ॐॐSAR
55ऊन