________________
-
मतेनापि कर्मरूपगुणाश्रयत्वमात्मन उपदर्शितम् ॥३॥ मूलम्-तदा यथा भूतगणा गुणाश्च, स्थास्यन्ति लीना ननु कर्तृनाम्नि ।
यद्वा नभोऽमूर्त्तमिदं गुरोलघो-मूर्तस्य चौमूर्तिमतो निरंतरम् ॥ ४॥ अर्थस्य सर्वस्य यथा विचक्षणा, आधारमाख्यन्नविनश्वरं महत् ।
कथं तथात्मैष न रूपवानपि, रूंपीणि सर्वाणि वहत्यनारतम् ॥५॥ टीका-श्लोकद्वयेनोक्तविपये सदृष्टान्तं पुष्टिमाह-तदेत्यादिना 'तदा'-तस्मिन् काले, कल्पान्तकाले इत्यर्थः, 'यथा'येन प्रकारेण, 'भूतगणाः '-पृथिव्यादय इत्यर्थः, 'गुणाचे 'ति-भूतानां गुणा:-गन्धस्पर्शादयः सत्वादयो वा, ' नन्वि 'ति-15 निश्चये, ‘कर्तनाम्नि'-कर्तनामके विष्णौ ब्रह्मणि वेत्यर्थः, ' लीना:'-स्थायिनः, ' स्थास्यन्ति'-भविष्यन्ति, यद्वेत्यादि । 'यद्वा'-अथवा, ' इदं '-प्रसिद्धं, 'नम:'-आकाशं, निरन्तरम् अतिशयेन आधारमस्ति, कथंभूतं नमः ? ' अमूर्त'-8 मूर्तिविरहितम् , कस्याधारमित्याह-गुरोरित्यादि 'गुरोः'-गरिष्ठस्य धराधरादिरूपिद्रव्यस्येति भावः, पुनः कस्याधारं ? 'लघोः '-लपिष्ठस्य धनवातादिरूपिसूक्ष्मद्रव्यस्येत्यर्थः, पुनः कस्याधारं ? ' मूर्तस्य '-मूर्तिमतः सर्वरूपिद्रव्यस्येति भावः,
१. विष्णुनानि ब्रह्मनानि वा । २. गुरोर्गरिष्ठस्य धराधरकारस्कराम्भोधिरूपरूपिद्रव्यस्य । ३. (लघोः) लधिष्ठस्य घनवाततनुवातपरमाणुत्रसरेण्वकैतूलादिरूपरूपिसूक्ष्मद्रव्यस्य । ४. मूर्तस्य सर्वरूपिद्रव्यस्य । ५. अमूर्तस्य सिद्धधर्माधर्मास्तिकायादेः ।। ६. द्रव्यस्य । ७. सर्वस्य द्रव्यस्य सर्वस्य धर्माधर्मजीवपुद्गलास्तिकायलक्षणस्य । ८. द्रव्याणि । ९. वस्तूनि ।
Sensorgane
-