________________
र
ANA3640USHIRO638AICIAI648
टीका-अस्योत्तरमाह-आकर्ण्यतामित्यादिना 'हे विज्ञाः!' हे अनुभवशालिनः !, ' अस्य '-पूर्वोक्तस्य प्रश्नस्य,
उत्तरं '-प्रतिवचनम्, ' आकर्ण्यताम् '-श्रूयताम् , किं तदित्याह-कर्मेत्यादि ' कर्मस्वभावात् '-कर्मणः स्वभावेन, ॐ 'अथ' शब्दश्वार्थस्तेन अथ, 'जीवशक्तेः' इत्यस्यार्थः जीवशक्तेश्चेति, कर्मणस्ताडक स्वभावो जीवस्य च तादृशी शक्तिरस्ति
यतः तयोर्योगो भवतीत्यर्थः, तत्संयोगेऽपरहेतुमाह-गुणाश्रय इत्यादिना 'द्रव्यं ' ' गुणाश्रयः'-गुणानामाधारः अस्ति ' इति प्रवादात् ' इति तार्किकजनवचनात् , 'संसारिजीवस्य '-संसारवर्तिनः, सकर्मणो जीवस्येति यावत् , 'कर्म गुणस्तु'गुण एव अस्ति, सम्यग्ज्ञानदर्शनचारित्रगुणानामाश्रयत्वात् सिद्धस्यापि जीवद्रव्यत्वं सकर्मणः संसारिजीवस्य च कर्मरूपगुणाश्रयत्वाद् जीवद्रव्यत्वम् एवं च सत्याधाराधेयत्वेन तयोः संयोगः सिद्ध एवेति भावः ॥२॥ मूलम्-यद्वा हि ये केचन विश्वमेतत्, सकर्तृकं प्राहुरहो ! समस्तम् ।।
कैल्पान्तकाले महति प्रवृत्ते, भाव्येव लीनं खलु विष्णुनाम्नि ॥३॥ टीका-कर्तृवादिमतमाश्रित्य गुणाश्रयत्वमाह-यद्वेत्यादिना ' यद्वा'-अथवा, 'ही 'ति निश्चये, 'अहो!' इति च विस्मये, 'ये केचन' केऽपि जनाः, 'एतद् -विद्यमानं, ' समस्तं ' सर्व विश्व-जगत् , ' सकर्तृकं'-कर्टसहितं कर्तजन्यमिति भावः, 'पाहुः'-कथयन्ति, तन्मते ' महति '-उत्कृष्टे, 'कल्पान्तकाले-महाप्रलये, 'प्रवृत्ते'-जाते सति, 'खल्विति' निश्चये, सर्व विश्वम्, 'विष्णुनाम्नि'-विष्णुनामके कर्त्तरि, 'लीनं'-स्थायि, 'भाव्येव'-भविष्यत्येव, एतेन कवादि
१. महाप्रलये । २. भावि-भविष्यति । ३. लीनं-स्थायि | ४. कर्तरि ।
फरॐॐॐॐ255