________________
॥अथ चतुर्थोऽधिकारः॥
जीवकर्मणोराधाराधेयसम्बन्धं श्लोकदशभिराहमूलम्-कर्माणि मूतन्यसुमानमूर्तः, साकृत्यनाकृत्यभियुक्तिरेषा।
न्याय्या कथं येन हि वस्तु भिन्नं, नाधारकाधेयकतां लभेत ॥१॥ टीका-जीवकर्मसंयोगविषये प्रश्नयति कर्माणीत्यादिना' कर्माणि', 'मूर्नानि'-मूर्तिमंति सन्ति, 'असुमान्'-आत्मा, 'अमूत्तों'-मूर्तिरहितः अस्ति, एवं च ' एपा'-प्रस्तूयमाना, 'साकृत्यनाकृत्यभियुक्तिः'-साकारनिराकारयोः संयोगः, जीवकर्म- | णोरभियोग इति भावः, 'कथं'-केन प्रकारेण, 'न्याय्या'-न्यायोपेता, अस्ति, ' ही 'ति-निश्चये, 'येन'-कारणेन, भिन्नं'-| मू मूर्त्तत्वभेदेन भिन्न अपरजातीय, वस्तु' 'आधारकाधेयकताम्'-आधाराधेयभावं, 'न लभेत'-न लन्धुं शक्नोति ॥१॥ मूलम् - आकयंतामुत्तरमस्य विज्ञाः !, कर्मस्वभावादथ जीवशक्तेः।
गुणाश्रयो द्रव्यमिति प्रवादीत्, संसारिजीवस्य गुणस्तु कर्म ॥२॥ १. जीवः। २. साकारनिराकार । ३. मूर्तामूर्त्तत्वभेदेन भिन्नमपरजातीयं । ४. ततोऽमूरूिपाधार आत्मा मूर्तानां रूपिणां कर्मणां कथमाधेयभावं धार्यतां प्राप्नोतीति पृच्छकाशयः । ५. प्रसिद्धो वादः प्रकृष्टो वा वादः प्रवादः बहुजनताकिकजनोक्तिस्तस्मात् यथा हि सिद्धात्मनः सम्यग्ज्ञानदर्शनचारित्राणि गुणाः सिद्धस्यापि जीवद्रव्यत्वात् तथा संसारिजीवस्य सकर्मणः कर्म गुण स्यात् जीवद्रव्यत्वात् ।
-
-
-