________________
टीका-तर्हि कर्मसमूह कोऽपि जानाति न वेति शङ्का परिहर्तुम् आह-ज्ञानेनेत्यादि ' एवमि 'ति-एवं च सतीत्यर्थः, 'अयं'-प्रसिद्ध्या सर्वविज्ञातः, 'केवली'-केवलज्ञानयुक्ता, 'एवं'-प्रस्तूयमानं, 'कर्मोचयं'-कर्मसमूह, 'ज्ञानेन'-ज्ञानद्वारा, 'जानाति '-बुध्यते, 'तु' शब्दोऽन्यव्यच्छेदार्थः, कथंभूतं कर्मोचयं ' 'जीवगतं'-जीवप्रदेशेषु व्याप्तम् , कथम् अन्यो न जानातीत्याह-यथा पुनरित्यादिना 'यथा पुनः'-यथा च, 'सिद्धरसात्'-औषधैः सिद्धो यो रसः पारदः तस्मात्, 'निपीतं' ' स्वर्णादि '-सुवर्णादि भवति, परन्तु ' तत्र'-तस्मिन् स्थले, ' दृशा'-नेत्रेण, 'नो अभिदृश्यते '-नावलोक्यते ॥ ३२ ॥ मूलम्-यदा तु कश्चिद्रससिद्धयोगी, कर्षेद्यदैतन्ननु तस्य सत्ता।
एवं हि कर्माण्यपि जीवगानि, ज्ञानी विजानाति न चापरोन ॥ ३३ ॥ टीका-ज्ञानविषये उक्तदृष्टान्तेनैव फलितमाह-यदा त्वित्यादिना ' यदा'-यस्मिन् काले, 'तु"कश्चित् '-कोऽपि, 'रससिद्धयोगी'-रसः सिद्धो यस्य स तथा स चाऽसौ योगी चेति, 'एतद्-स्वर्णादि, 'कर्षेत्'-रसाद् बहिराकृषेत्, 'तदा'तस्मिन् काले, 'नन्वि 'ति-निश्चये, ' तस्य '-स्वर्णादेः सत्ताभावः बुध्यते, 'एवम् '-उक्तप्रकारेण, 'हि' शब्दश्चरणपूत्तौं, 'अत्र'-अस्मिन् संसारे, 'ज्ञानी '-ज्ञानवान् , 'कर्माण्यपि'' विजानाति '-अवगच्छति, 'न चापर' इति ज्ञानिनमतिरिक्तान्यः (क्तोऽन्यः) कश्चित् कर्माणि न विजानातीत्यर्थः, कथंभूतानि कर्माणि ? 'जीवगानि'-जीवप्रदेशेषु व्याप्तानि ॥३३॥
अमूर्तस्याप्यात्मनो मूर्तकर्मग्रहणतत्पिण्डादर्शननिरूपणोक्तिलेशः तृतीयोऽधिकारः॥
स