________________
त्वित्यादिना 'तु' शब्दो व्यवच्छेदार्थः, 'ज्ञानी' - ज्ञानवांस्तु, 'भृशोदयात् ' - निरन्तरमुदयवशात्, 'सज्ज्ञानद्दश: ' - सम्यग् - ज्ञानरूपदृष्टेः, ' पश्येत् ' - अवलोकते, 'एतानि ' - सूक्ष्मतमानि कर्माणि, ' यथे 'ति - तथा वेत्यर्थः, ' अत्र ' - अस्मिन् विषये, 'एव' शब्दचरणपूर्ती निश्रये वावगन्तव्यः, ' निदर्शनम् ' - दृष्टान्तं, ' शृणु ' - आकर्णय ॥ ३० ॥ मूलम् - पात्रे च वस्त्रादिषु गन्धपुद्गलाः, सौगंध्यदौर्गंध्यवतो हि वस्तुनः ।
ज्ञेया नसा ते न हि पिण्डभावं गता अपीक्ष्या नयनादिभिस्तु ॥ ३१ ॥
टीका-पात्रे चेत्यादिना प्रथमो हि ( : ) निश्रये द्वितीयचरणपूर्ती, ' पात्रे - भाजने, ' वस्त्रादिषु ' - वस्त्रप्रभृतिषु च 'सौगंध्यदौगंध्यवतः ' - सुगंधदुर्गंधयुक्तस्य, 'वस्तुनः ' - पदार्थस्य, 'गन्धपुद्गलाः ' - सुगंधदुर्गंधपरमाणवः, यद्यपि 'नसा'नासिकया, ' ज्ञेयाः ' ज्ञातुं योग्याः सन्ति, ' तु ' - परन्तु, ' ते ' - गन्धपुद्गला', 'पिण्डभावं गता अपि ' - संघातीभावं प्राप्ता अपि, ' नयनादिभिः ' - नेत्रादिभिरिन्द्रियैः, न दर्शनीयाः भवन्ति । यदा सुगन्धदुर्गन्धपुद्गलाः पुद्गलात्मके पात्रादिके वस्तुनि स्थिता अपि नेत्रेण न दृश्यास्तदाऽपुद्गलात्मके आत्मन्यतिसूक्ष्माः कर्मपुद्गलाः नेत्रेण कथं दृश्या इति भावः ॥ ३१ ॥ मूलम् - ज्ञानेन जानात्ययमेवमेतं, कर्मोंच्चयं जीवगतं तु केवली |
त ( य ) था पुनः सिद्धरसान्निपीतं, स्वर्णादि नो तत्र दशाभिदृश्यते ॥ ३२ ॥
१. यदि सुगन्धदुर्गन्धपुद्गलाः पुद्गलात्मके पात्रादिके वस्तुनि स्थिता न दृश्यास्तर्हि अपुद्गलात्मके आत्मनि अतिसूक्ष्माः कर्मपुद्गलाः कथं दृश्या इत्यर्थः । २. अयं प्रसिद्धया सर्वविज्ञातः केवली ।