________________
9696969690930969996COCO
॥जीवसंलग्नकर्मणामदृष्टत्वं पञ्चश्लोकैराह ॥ मूलम्-कर्माणि जीवैकतरप्रदेशे-ऽप्यनन्तसङ्ख्यानि भवन्ति चेत्तदा।
कथं न दृश्यानि हि तानि पिण्डी-भूतानि दृष्ट्या निगदन्तु कोविदाः ॥२९॥ टीका-कर्मादर्शनविषये प्रश्नयति-कर्माणीत्यादिना 'चेत्'--यदि, 'जीवैकतरप्रदेशेऽपि'-जीवस्यैकैकस्मिन्नपि प्रदेशे, 'कर्माणि' 'अनन्तसंख्यानि'-अनंता संख्या येषां तानि, 'तथा भवन्ति' 'तदा-तर्हि, हीति चरणपूतौं, 'पिण्डीभूतानि'--संघातमु
पेतानि, 'तानि' पूर्वोक्तानि कर्मादि 'दृष्टया'-नेत्रेण. 'कथं --केन प्रकारेण, न 'दृश्यानि'-द्रष्टुं योग्यानि सन्ति, इति कोविदा:-- , विद्वांसः, 'निगदितुम्'-कथयितुम् , जीवैकतरप्रदेशेऽप्यनंतसंख्यानि स्थितानि पिण्डीभावं प्राप्तानि तानि कर्माणि नेत्रेण कथन दृश्यन्त इतिभावः ॥२९॥
मूलम्-सत्यं कृतिन् ! सूक्ष्मतमानि तानि, पश्यन्ति नो चर्महशो हि मादृशाः।
ज्ञानी तु 'सज्ज्ञानहशो भृशोदया-त्पश्येद्ययात्रैव निदर्शनं शृणु ॥३०॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना 'हे कृतिन् ! --सुकृतोपेत, 'सत्यमिति-तवोक्तकथन सत्यमस्तीत्यर्थः, परन्तु 'तानि'-पूर्वोक्तानि, 'सूक्ष्मतमानि'-अतिशयेन सूक्ष्माणि कर्माणि 'मादृशा'-मादृग् जनाः, 'नो पश्यन्ति' नावलोकन्ते, हिशब्दचरणपूर्ती, कथंभूता मादृशाः १ 'चर्मदृश'-चर्मनेत्रयुक्ताः, आन्तरिकदर्शनविहीना इत्यर्थः, तर्हि को द्रष्टुं शक्नोतीत्याह ज्ञानी ।
२. हष्टेः ।