________________
%
OccessageeCeeeeeeeee
मूलम्--विना जलैः पुष्पफलैश्च दीपैः, सद्भावपूजां सफलीकरोति ।
ध्यात्वाऽर्थ ब्रह्मापि च ब्रह्मवादी, न 'ब्रह्मतामेष लभेद्विना खैः ॥२७॥ टीका-पुनः किं करोतीत्याह-विना जलैरिन्यादि 'जलैः'-उदकैः, 'पुष्पफलै'-कुसुमैः फलैश्च, 'दीप'-दीपकैश्च विना, 'सद्भावपूजा'-सद्भावसंबंधिनीमची, 'सफलीकरोति'-सफलां विदधाति, ध्यात्वेत्यादि अथापि चेति अन्यच्चेत्यर्थः, 'एष'-विवक्षितः, 'ब्रह्मवादी-ब्रह्मध्याता, 'ब्रह्म ध्यात्वा'-ब्रह्म चिन्तयित्वा, 'खैः विना'-इन्द्रियैर्विना, 'ब्रह्मता'-ब्रह्मत्वं, 'न लभेत्'-न | प्राप्नुयात्, क्रिया परस्मैपदं चिन्त्यम् काकूक्तिरियं तेन ब्रह्मत्वं लभत एवेति भावः ॥२७॥
मूलम्-जीवोऽयमेवं करणैः करादिभि-विनैव कर्माणि समाश्रयत्यलम् ।
___अचिन्त्यशक्त्या नियतिस्वभाव-कालैश्च जात्या च कृतप्रणोदः ॥२८॥ टीका-दृष्टान्तं दार्टान्ते घटयति-जीवोऽयमित्यादिना 'एवम्'--उक्तरीत्या, “अयं'-प्रस्तुतो जीव आत्मा, 'करणैः'-- इन्द्रियैः, 'करादिभिः'-हस्ताद्यवयवैः, 'विनैव'--अलं पर्याप्तत्वेन, 'कोण'--'समाश्रयति'-आधत्ते, कथंभूतो जीवः १ 'अचिन्त्यशक्त्या'-अविचार्य सामर्थेन, 'नियतिस्वभावकालैवेति-नियत्या स्वभावेन कालेन चेत्यर्थः, 'जात्या चेति-तथाविधनरजन्मादिना चेत्यर्थः, 'कृतप्रणोद'-कृतप्रेरणः, अचिन्त्यसामर्थेन नियत्या स्वभावेन कालेन जात्या च प्रेरितो जीवः कर्माणि समाश्रयतीति भावः ॥२८॥
१. एप ब्रह्मवादी ब्रह्मध्याता । २. इन्द्रियः । ३. तथाविधनरजन्मादिना । ४. प्रेरणः ।
90969696969696969OEOCHE