________________
र
ये 'पुद्गलोत्कराः' - परमाणुसमूहास्तान् 'विहाय' - त्यक्त्वा, कुतः कर्मपुद्गलान् गृह्णातीत्याह - याहक्षेत्यादिना 'यादृक्ष यादृक्ष' - यादृशी या 'भविष्यदायतिः ' - भाविकालोऽस्ति ' तादृक्षस्य ' तादृशस्य, 'सम्प्रेरणपारवश्यतः - प्रेरणापराधीनत्वात् हेतौ पंचमी ॥९॥ मूलम् -- सुप्तो यथा वा किल कञ्चिदङ्गभृत्, स्वप्नान् प्रपश्यन् कुरुते 'समाः क्रियाः । 'नोइन्द्रियेणैव न तत्र किञ्चने-न्द्रिय द्वयप्राणमहो प्रवर्तते ॥ १०॥
-
टीका — उक्तविषयस्यैव दृष्टान्तद्वारेण पुष्टिमाह - सुप्त इत्यादि 'वा' - अथवा, किलेति' - स्ववार्त्तायाम्, 'यथा' 'कश्चित् ' - कोऽपि, 'अङ्गभृत्'- प्राणी, 'सुप्तः ' - शयानः सन् स्वप्नान्, 'प्रपश्यन्' - अवलोकमानः, 'नोइंद्रियेणैव' - नोइंद्रियं मनस्तेनैव, 'समाः' - सर्वाः क्रियाः ' - व्यापारान्, 'कुरुते' - करोति, 'तत्र' - स्वप्नदर्शनकाले, 'किञ्चन' - किमपि ' 'इन्द्रियद्वयमाणः ' - इन्द्रियाणां द्वयमिंद्रियद्वयं ज्ञानेंद्रियाणि कर्मेन्द्रियाणि च तस्येंद्रियद्वयस्य, प्राणः शक्तिस्तस्य महस्तेजः, 'न प्रवर्तते' - न प्रवृत्तिं करोति ॥ १०॥
मूलम् - जीवस्तथा कर्मभरं हि लाति, स्वप्नो भ्रमोऽयं ननु मैयमाख्यः ।
महत्तमे 'तस्य फले च दृष्टे, मा ब्रूहि यत्स्वममयं स्मरत्यहो ॥११॥
टीका-दृष्टांतं दाष्टन्ते योजयति - जीवस्तथेत्यादिना ' तथा ' - उक्त प्रकारेण, 'ही'ति - निश्चये, 'जीव' - आत्मा 'कर्मभरं' - कर्मसमूहं, 'लाति' - गृह्णाति, अत्र शङ्कते - स्वप्न इत्यादिना 'नन्विति - वितर्के, 'अयं' - पूर्वोक्तः, 'स्वप्नो' - ' भ्रमो' - भ्रान्तिरस्ति,
१. सर्वाः । २. मनसा । ३ बुद्धीन्द्रियक्रियेन्द्रियलक्षणेन्द्रियद्वययल विना मनो नास्तीति । बुद्धीन्द्रियाणि स्पर्शनादि पञ्च । क्रियेन्द्रियाणि करपादादिपञ्च । ४. स्वप्नस्य । ५. स्वप्रदर्शको नरः ।