________________
समाधानमाह - मैवमित्यादिना 'तस्य' - स्वप्नस्य, 'महत्तमे' अतिशयेन महति अत्युत्कृष्टे इत्यर्थः 'फले दृष्टे' सति 'मैवमाख्य:'एवमित्थं माख्यः, मा ब्रूहि 'च' शब्दचरणपूती, शंकांतरमपि निराकर्तुमाह- मा ब्रहीत्यादि 'मा ब्रूहीति - एवमपि मा कथयेत्यर्थः, 'अयं' - स्वप्नदर्शकनरः, 'अहो' इति - विस्मये, 'स्वप्नं स्मरति ' - स्वप्नस्य स्मरणं करोतीति ॥११॥
Sup
मूलम् - यथा गृहीतं नहि कर्म 'स स्मरेत्, न स्मर्यते प्रायश एव दृष्टः । स्वप्नस्तथा कर्मभरोऽपि चात्तः, कश्चित्स्मरेत् स्वप्नमिमं यथेक्षितम् ॥ १२ ॥ कर्म स्मरेत् ज्ञान विशेषनस्तथा, प्रधानपुंसेक्षित एव यद्वत् । स्वमो यथार्थः फलतीह नूनं तथैव कर्मात्तमिदं कृतार्थम् ॥ १३ ॥ टीका - अत्र हेतुमाह-पथेत्यादिना ' तथा ' - येन प्रकारेण, 'स' - कर्मग्राहको जीवः, 'गृहीतं ' -- लब्धकर्म, न हि स्मरेत्'-- स्मर्तु न शक्नोति, 'प्रायशः' एव' - बहुधैव, 'दृष्ट:'-- अवलोकितः 'स्वप्नो' 'न स्मय्यते' न स्मृतिगोचरी क्रियते, ' तथा ' -- तेनैव प्रकारेण, 'च' शब्दचरणपूतौं, 'आत्तो '-- गृहीतः, कर्मभर ः ' - कर्मसमूहोऽपि न स्मर्यते, अत्र विशेषमाह-- कश्चिदित्यादिना परंतु यथा 'कश्चित् ' - कोऽपि, 'ईक्षितं ' - -दृष्टं, 'इमं' - प्रस्तूयमानं, 'स्वप्नं स्मरेत्' ' तथा ज्ञानविशेषत:' - ज्ञानविशेषेण, 'कर्म स्मरेत्' - कर्मणः स्मरणं करोतीति अर्थः, फलद्वारा तयोर्यथार्थ्यमाह प्रधानेत्यादिना 'यद्वत्' -- यथा, 'इह ' -- अस्मिन् संसारे, 'नूनं' - निश्वयेन, 'स्वप्नः' १. कर्मग्राहको मीवः । २. गृहीतः । ३. यथा वा चौरादिकः कश्चिदपराधी बन्धनं प्राप्तो निजाचरितचौर्यादि स्मरति शानादेव साघुरपि पूजां प्राप्तः स्वशुभाचारं स्मरति ज्ञानात् ।