________________
69EB6EGGECEG:ÉGEGELÉSÉGÉE
विशेषेषु भेदनं न भवति, पुनर्व्यभिचारं दर्शयति-धान्ये इत्यादिना यदि 'धान्ये'-अने, 'अंभसो'-जलस्य भेदनशक्ति-रस्ति तर्हि तेन 'कटुका'-करडूकणाः 'किन भेया: ?'-कथन्नभेदनीया भवन्ति ॥७॥
मूलम्-सिद्धं तथेदं ग्रहणीयमेव, वस्त्वत्र यस्यास्ति तदेव लाति।
किं चुम्बको लोहमयोज्य धातू-नन्यांश्च गृह्णाति तथा स्वभावात् ॥८॥ टीका-फलितमाह-सिद्धमित्यादिना-'तथेति'-तथा च सतीत्यर्थः, 'इदं'-वक्ष्यमाणं वृत्तं, "सिद्ध-सिद्विगतं, किमित्याह-ग्रहणीयमेवेत्यादि 'अत्र'-अस्मिन् संसारे, 'यस्य' यत् 'वस्तु' 'ग्रहणीयमेव'-ग्रहीतुं योग्यमेवास्ति तत् 'तदेव' 'लाति'गृह्णाति, अस्यैव पुष्टिमाह-किमित्यादिना 'अथेति'वितर्के, "किं' चुम्बक'-लोहारूर्पकपापाणः, 'तथास्वभावात्'-लोहाकर्षणस्वभावेन 'लोहम्' अयः ‘उज्झ्य'-त्यक्त्वा, उज्येति चिन्त्यं पदम् 'अन्यान्'-पदार्यान्, 'धातून'-सुवर्णादीन्, 'च' शब्दश्वरणपूर्ती, 'गृह्णाति'-आदत्ते नादत्ते इतिभावः ॥८॥
मूलम्-अप्येवमात्मा परपुद्गलोत्करान्', विहाय गृह्णाति हि कर्मपुद्गलान् ।
यादृक्ष यादृक्ष भविष्यदायतिः, तादृक्ष सम्प्रेरणपारवश्यतः ॥९॥ टीका–दार्टाते योजनामाह-अप्येवमात्मेत्यादिना 'अपि'-संभावने, 'एवम्'–उक्तप्रकारेण, 'आत्मा-जीवः, 'ही'ति । निश्चये, 'कर्मपुद्गलान्' कर्मपरमाणून् , 'गृह्णाति'-आददते, किं कृत्वेत्याह-परपुद्गलोत्करान् विहायेति 'पर'-कर्मसकाशाद् भिन्नाः, ____१. फर्मणः सकाशात भिन्नान् पुद्गलसमूहान् विहाय कर्मसुद्गलान् गृह्णाति । २. उत्तरफालः ।
bobocec9606690083906600