________________
Rece@@@@DODCORPORDER
@@@@@GOODC
टीका-(यथा च स ईश्वरतया त्वयाऽभ्युपगतः कर्ता) स्वकैः-निजभक्तैः, यत् पापम्-अनिष्टमदृष्टम् , कृतं-विहितं, 'तत्' इत्यथादाक्षिप्यते, अनन्तशक्तेः-स्वस्यापरिमितसामर्थ्यबलेन, आशु-झटिति, हरति-अपनयति, तथा-तद्वत् , आत्माAND चेतनः, सहजात्-स्वभावात् , इन्द्रियादिरहितोऽपि कर्मग्रहण-नाशादि करोति । 'यथा वा' इति निदर्शनान्तरोपदर्शने, रसस्य
पारदस्य, सिद्धः-तथाविधौषधादिना संस्कृतः, गुडको-गुटिका, निरक्षेन्द्रिय-पाणिमुक्ता-निरक्षःअचेतश्चासौ इन्द्रियहस्तरहितश्च सन् ॥४॥
मूलम्--दुग्धादिपायी त्रपुनीरशोषी, स शब्दवेधी बलशुक्रदश्च ।
सूतोऽपि चैतत्कुरुते निरक्षो, जीवस्तु शक्तो न करोति किं किम् ? ॥५॥ दुग्धादिपायी-दुग्धादि सातिशयं पिबति तच्छीला, पुणः-रङ्गस्य नीरं-पानीय शोषयति तच्छीला, शब्दवेधी-शब्दानुसारेण लक्ष्यवेधसामर्थ्ययुक्ता, चः समुच्चये, बलशुक्रदः-बलं विशिष्टां शक्तिं, शुक्र-वीर्य च ददातीति बलशुक्रदो भवति । उपसंहरति-निरक्षः-अचेतनः, सूतोऽपि पारदोपि, एतत्-यथोक्तं दुग्धादिपान-त्रपुनीरशोषण-शब्दवेधवलशुक्रदानस्वरूपं कार्य, कुरुते-विदधाति, तु-तदा, शक्तः अनन्तशक्तियुक्तः, जीवः-चेतनः, किं किं न करोति ?-अपि तु सर्वमपि कार्य कर्तुं | प्रभवतीत्यर्थः ॥५॥
@
@@