________________
a
SBANARENERASAAMAHARIA
9996063629065999999999
सिद्ध्यति । उत्तरमाह-सत्यमित्यादिना 'सत्य'मिति-उक्तकथनं सत्यमस्तीत्यर्थः, परंतु 'अथेति-संभाव्ये, 'आत्मा' जीव 'इन्द्रियतो-विनाऽपि इंद्रियविनापिएकोऽपि शब्दश्चरणपूर्ताववगन्तव्यः, 'कर्म' 'समाददीत'-गृह्णीयात् , ग्रहीतुं शक्नोतीतिभावः, म कथंभूतं कर्म ? 'भाव्याश्रित-भविष्यत्कालभोग्यम्, अत्र हेतुद्वयमाह-शक्तेः 'स्वाभावाचेति आत्मनस्तादृशी शक्तिस्तादृक् । स्वभावश्चास्तीत्यर्थः, शृणु स्वरूपमिति'-आत्मस्वरूपं श्रूयतामित्यर्थः ॥२॥
मूलम्-यथेन्द्रियाकार विवर्जितोऽयं, कर्ता शृणोत्येव निजाङ्गिजापम्।
भक्तं निरीक्ष्याऽथ विलाति पूजा, पाणि विना चोद्धरतीह भक्तान् ॥३॥ टीका-उक्तविषयमेव स्पष्टयति, यथेत्यादिना 'यथा' 'अयं विवक्षितः, 'कर्ता'-जगत्कारकः, निजाङ्गिजापम्'-निजभक्तजापम् , 'शृणोत्येव'-आकर्णयत्येव, पुनः किं करोतीत्याह-भक्तमित्यादि 'अथेति'-संभाव्ये, 'भक्तं'-भजनकर्तारं, 'निरीक्ष्य'- दृष्ट्वा, 'पूजा'-पूजनम मिति यावत् , 'विलाति'-गृह्णाति, पुनः किं करोतीत्याह-पाणिमित्यादि 'इह-अस्मिन् जगति, 'पाणि -
विना-हस्तेन विनैव च, 'भक्तान्'-भजनकर्तृन्, 'उद्धरति-संसारात् तारयति, कथंभूतः कर्तेत्याह-इंद्रियाकारविवर्जित इति 5/ 'इंद्रियाकारेण विरहित इत्यर्थः ॥३॥
मूलम्-पापं हरत्याशु कृतं स्वकर्य-दनन्तशक्तेः सहजात्तथाऽऽत्मा।
लोके यथा वा 'गुडको रसस्य, सिद्धो निरक्षेन्द्रियपाणिमुक्तः ॥४॥ १. अयमिति फर्तृवादिलोकप्रसिद्धः कर्ता । २. गुटिका । ३. पारदस्य ।
-