________________
369696968209566909090€
जीवस्य कर्मग्रहणे स्वभावो, 'ज्ञानं विनाऽप्यस्ति निदर्शनं यत् ॥९॥ टीका-दार्टान्ते घटनमाह ‘एवं ही त्यादिना। 'एवं'-उक्तरीत्या, 'असुमान्'-प्राणी जीव इति यावत्, विदन्'जानन्नपि 'अवश्य'-निश्चयेन ‘शुभाशुभानि-शुभान्यशुभानि च कर्माणि 'विलाति'-गृह्णाति । अत्र हेतुमाह 'जीवस्य'-आत्मनः 'कर्मग्रहणे-कर्मणामादाने 'स्वभाव'-प्रकृतिरस्ति, 'यत्-यस्मात् कारणात् अत्र 'निदर्शन'-दृष्टान्तोऽस्ति ॥९॥
मूलम्-यथैव लोके किल चुम्बकोऽप्ययं, संयोजकर्योजितमंजसा भृशम् ।
सारं तथाऽ सारमयोऽविचारितं, गृह्णाति येना व्यवधानमात्मनः ॥१०॥ टीका–दृष्टान्तमेवाह 'यथैव' इत्यादिना । यथैव 'लोके'-संसारे, 'किले'ति-स्ववार्तायाम् , 'अयं'-विवक्षितः 'चुम्बकः | O लोहाकर्षकपाषाणविशेषोऽपि 'भृशं'-निरन्तरं 'अंजसा'-शीघ्रं अविचारितं यथा स्यात्तथा विचारमन्तरेणैवेत्यर्थः 'अय'-लोहं Iam 'गृह्णाति'-आदत्ते । कथंभूतमयः ? 'संयोजकैोजितं'-योजनकर्तृभिः समीपे स्थापित, पुनः कथंभूतं ? 'सारं तथाऽसारं'-सार
भूतं कान्तविद्युत्सारादि, असारभूतं मुण्डादि, एतत् द्विविधमप्ययो गृह्णातीत्यर्थः । पुनः कथंभूतं ? 'येनात्मनोऽव्यवधान'-येना- यसा सहात्मनः-स्वस्य व्यवधानम्-अन्तरं नास्ति तत् ॥१०॥
१ शानं विनापि जैनाभिप्रायेण जीवस्य ग्रहणस्वभावोस्ति, अत्र दृष्टान्तो-"यथा (यथैव) लोके किल" इत्यादि ।२ लोहं कान्तविद्युत्सारादि । ३ मुण्डादि । ३४ येन सारेण लोहेनाथवा असारेण लोहेन सहात्मनः स्वस्याव्यवधान-अन्तरं नास्ति ।
100:909ESCOEDWICIEOB64962