________________
2680960:29098696969686868686
____टीका-पुनदृष्टान्तानाह 'भिक्षुस्तथा' इत्यादिना । श्लोके तथाशब्दौ चशब्दाच समुच्चयेऽववोध्या: । 'भिक्षु:-भिक्षणर शील:, 'पन्दी-चारणादिः, 'क्रत्यकः (६-१-१२७) इति पाणिनीयसूत्रेण इसत्वं प्रकृतिभावश्च, 'ऋषि-तचावित 'स्निग्धां'ॐ स्नेहयुक्तां सरसामिति यावत् , भिक्षा परिबुध्य'-ज्ञात्वा 'भुङ्क्ते'-अत्ति । तथा 'युद्धगतः' संग्रामं प्राप्तः 'शूर'-वीरपुरुषः 'रोधेदुर्गरोधनादिके सति 'अगच्छन्'-जाननपि 'शत्रून्' चैरिणः 'अशत्रून्'-मित्राणि च 'निहन्ति'-मारयति ॥७॥
मूलम्-रोगी यथा वा निजरोगशान्ति-मिच्छन्नपथ्यं ह्यपि सेवतेऽसौ।।
रोगाभि'भूतत्ववशादपाय', जानन् त्वयं भाविनमात्मगामिनम् ॥८॥ टीका-दृष्टान्तरमाह 'रोगी यथा वा' इत्यादिना । 'वा' अथवा 'यथा'-येन प्रकारेण 'असौं-विवक्षितः 'रोगी-रोगवान् रुग्ण इति यावत्, हीति निश्चये 'अपथ्यमपि'-अहितमपि वस्तु 'सेवते'-व्यवहरति । कथंभूतो रोगी ? 'अपायं जानन्'विनाशं विदन् अपथ्यसेवनजन्यफलं जाननपीत्यर्थः । कथंभूतमपाय ? 'स्वयं भाविनं'-स्वत एव भविष्यति काले भवनशीलं, पुनः कथंभूतं ? 'आत्मगामिनं'-स्वस्मिन्नागन्तुकम् । आत्मगामिनं भाविनमपायं विदन्नपि कुतोऽपथ्यं सेवते ? इत्यत्र हेतुमाह-रोगाभिभूतत्ववशात्' इति रोगेणाभिभूतत्वं-पारवश्यं तद्वशात् तस्य वशेन रोगपरवशः सनित्यर्थः ॥८॥
ज्ञानं विनापि जीवानां कर्मग्रहणं सम्भवति श्लोकद्वयेनाह । मूलम्-एवं हि काण्यसुमान् विलाति शुभाशुभानि प्रविदन्नवश्यम् । १ पारवशात् । २ कष्टम् । ३ जीवः ।
99999999999999999969990090€