________________
ਉਵੈਰਭਉ
मिच्छुः । पुनः कथंभूतः ? “ शुभाशुभान् स्थानमरान् विजानन् - शुभा अशुभाथ ये स्थानमराः - स्थानसामग्यः तान् विजानन्जानानोऽपि ॥५॥
मूलम् - तथा च चौराः परदारगा अपि व्यापारिणो दर्शनिनो द्विजास्तथा । विदन्त एते हि तथाविधायतेः शुभाशुभं कर्म समाचरन्ति ॥ ६ ॥
टीका--उक्तविषयपुष्टये पुनर्दृष्टान्तानाह ' तथा च' इत्यादिना । ' तथा च' इति - अन्यदपि दृश्यतामित्यर्थः । 'चौराः' - चौर्यकर्तारः, 'परदारगाः' - परस्त्रीसेवनकर्तारः, अपिशब्दः समुच्चये, व्यापारिणो- व्यापारं कर्तारः, 'दर्श निनो' - मतानुयायिनः तथेति समुच्चये 'द्विजाः ' - ब्राह्मणाः, एते पूर्वोक्ताः, हीति चरणपूत, 'विदन्तो' - जानन्तः स्वस्त्रकर्मफलं जानाना अपीत्यर्थः, 'तथा विधायतेः - तथाविधात् - तादृशः शुभाशुभहेतुभूतादित्यर्थः, 'आयते : ' - भविष्यत्कालात् तथाविधशुभाशुभहेतु भविष्यत्कालादिति भावः, हेतौ पञ्चमी, 'शुभाशुभं कर्म ' - शुभमशुभं च कार्य ' समाचरन्ति' - कुर्वन्ति चौरादयः स्वस्वकर्मविपाकं जानन्तोऽपि तथा विधायतिवशाच्छुभाशुभं कर्म कुर्वन्त्यर्थः ॥६॥
मूलम् - भिक्षुस्तथा 'बन्दि ऋषिश्च भिक्षां, स्निग्धां च रूक्षां परिबुध्य भुङ्क्ते । शूरस्तथा युद्धगतोऽवगच्छन्, शत्रून शत्रूंश्च निहन्ति ' रोवे ||७||
१ तथाविधशुभाशुभहेतु भविष्यत्कालात् । २ वन्दिशन्दस्य इ 'कत्थकः' इति पाजितोयसूत्रेण पक्षे कृतहृस्वस्त्रस्थ पाठ: । ३ 'ऋषिस्तु तत्त्रवित् योगविदिति । ४ स्निग्धामर्थात् स्वादेिशं मृशं सरसामिति यावत् । रूझामुक्तविपरीतां स्वस्मिन्नचितां स्वप्रकृतितो भिन्नरूपामिति । ६ ज्ञाला । ७ रोधे - गढ रोधारिके ।