________________
ReceDeDEde@@@@speeGo
2009090909090909090909090€
मूलम्-तथाहि कश्चिद्धनवानपीह, खादेद् भविष्यन्नियतिप्रणुन्नः।
खलं विवोधन्नपि मोदकादि-स्वादिष्टवस्तूनि यतः स्वतंत्रः ॥४॥ टीका-अत्रैव दृष्टान्तमाह तथाहीत्यादिना, 'तथाहि-तद्यथा, 'इह-अस्मिन् संसारे, 'यतः इति हेतूद्योतने, 'कश्चित्'विवक्षितः, 'धनवानपि'-द्रव्याढयोऽपि, 'मोदकादिस्वादिष्टवस्तूनि'-मोदकादीनि यानि स्वादिष्टानि-अतिशयेन स्वादूनि वस्तूनि 0 सन्ति तानि 'विवोधन्नपि'-जानन्नपि 'खलं'-प्रेरणवशात्तैलापगमेन सर्षपाधवशिष्टरूक्षभागस्वरूपं पदार्थ, 'खादेत्'-भक्षयेत् । हेतुगर्भविशेषणमाह-'भविष्यन्नियातिप्रणुन्न' इति, भविष्यन्ती-भाविनी या नियतिस्तया, 'प्रणुन'-प्रेरितः, पुनरपि हेतुगर्भविशेषणमाह-'स्वतन्त्र' इति-अपराधीन इत्यर्थः ॥४॥
मूलम्-अनन्यमार्गश्च तथैव कश्चित्, स्थानं निजेष्टं प्रयियासुराशु ।
शुभाशुभान स्थानभरान् विजानन्, विलङ्घते 'स्वीयपदाप्तिनोदात् ॥५॥ टीका-पुनदृष्टान्तरेणोक्तविषयपुष्टिमाह-'अनन्यमार्गश्च' इत्यादि । तथैव काश्विजनः 'विलङ्घते -शुभमार्गमतिक्रम्य कुत्सितमार्गेण प्रयाति । कुत इत्याह-'स्वीयपदाप्तिनोदाव'-स्वकीयस्थानप्राप्तिप्रेरणात् शीघ्रमेव स्वस्थानप्राप्तिः स्यादित्यायभि- 0 लापप्रेरणादिति भावः । कथंभूतः कश्चिज्जनः ? 'अनन्यमार्गः नास्त्यन्योऽपरो मार्गः-पन्था यस्य स तथा, स्वस्थानप्राप्तये मुख्यतयैक एव यस्य मार्ग इत्यर्थः । पुनः कथंभूतः ? "निजेष्टं स्थानं आशु प्रयियासुः"-शीघ्रमेव स्वाभिलषितस्थानं गन्तु
१ स्वकीयस्थानकप्राप्तिप्रेरणात् ।