________________
>6€990€oeeeee06985099999
TA त्यादि, 'आत्मा'-जीवस्तु 'बुद्धो'-ज्ञानवान् वर्तते स 'जानन्'-कर्मविपाकं विदन्नपि 'स्वयमेव'-स्वातन्त्र्येणैव कर्माणि 'कथं.
केन प्रकारेण 'लाति'-गृहणाति ? हि-शब्दः पादपूर्ती । कथंभूतानि कर्माणि ? 'अशस्तानि'-अशुभानि दुःखजनकानीति यावत् , आत्मा शुभविपाकानि प्रशस्तकर्माणि सुखैषी सन गृहात नाम. परंत बढोड | मेवाशुभविपाकानि अप्रशस्तकमाणि कथं गृहातीति भावः ॥२॥
मूलम्--को नाम विद्वानशुभं हि वस्तु, गृहाति मत्वा किल यः स्वतन्त्रः।
सत्यं विजानन्नपि भाविताह'-कालादिनोदादशुभं हि लाति ॥३॥ टीका-उक्तविषय एव पुष्टिमाह 'को नाम' इत्यादिना । नामेति प्रसिद्धो, हीति चरणपूत्तौं । यत्तदोनित्यसम्बन्धात् स इत्यध्याहार्य, सकोऽस्ति 'विद्वान्'-पण्डितो यः 'स्वतन्त्र'-अपराधीनः सन् , किलेति' निश्चये 'मत्वा'-ज्ञात्वापि विपाकं जाननपीत्यर्थः, 'अशुभं'-दुःखावह 'वस्तु' 'गृह्णाति'-आदत्ते कश्चिदबुधः परतन्त्रोऽजानन् वा अशुभं वस्तु गृह्णीयात्, परं तु बुद्धिमानपराधीनः फलं च विदन् कोऽशुभं वस्तु ग्रहीतुं शक्नोति ? इति भावः । अत्रोत्तरमाह-सत्यमित्यादिना, सत्यमिति भवतोक्तं
कथनं सत्यमस्तीत्यर्थः, परं तु 'विनानन्नपि'-फलं जानानोऽपि प्रभावितादृक् कालादिनोदात्'-भाविनो-भविष्यन्तः तादृशःa तथाविधाः सुखदुःखहेतव इत्यर्थः, ये कालादयः आदिशब्देन स्वभावादिग्रहणं, तेषां नोदात्-प्रेरणात् , हीति निश्चये, अशुभं | 'लाति'-गृह्णाति ॥३॥
१ कालो सहाव नियइ, पुव्यकयं पुरिसकारणे पंच । समवाए सम्मत्तं, पगते होइ मिच्छत्तं ॥१॥ भाविनो-भविष्यन्तो ये ताशाः सुखदुःखहेतवः कालादयः पञ्च, तेषां 'नोद:-प्रेरणं तस्मात् ॥
DDEODOGGEDEO