________________
DegabQcabākaFAABAAA
160699999699969896906606869
टीका-जीवकर्मणोरनादित्वात् तयोः संयोगोऽप्यनादिसिद्धः, तथापि पुराणानि कानिचित् कर्माणि कृपयति कानिचिनवानि च गृह्णातीति सम्बन्धेनोपस्थितोऽयं द्वितयः कर्मग्रहणाधिकार उच्यते-'ताहकस्वभावादित्यादि । इह-अस्मिन् संसारे N'जीव'-आत्मा 'कर्माणि 'समाददीत'-गृहीयात् । कथंभूतानि कर्माणि ? 'पुर स्थितानि'-यथायोग प्राप्तानि । पुनः कथंभूतानि ?
शुभाशुभानि'-शुभानि अशुभानि चेति । अत्र हेतुत्रयमाह तागित्यादिना, 'ताकस्वभावात्'-जीवस्य कर्मग्रहणस्वभावात् I इत्येको हेतुः। पुनश्च 'नियते'-नियतिवशात् नियतेरवश्यंभावादित्यर्थः इति द्वितीयो हेतुः । पुनश्च 'भविष्यत्कालात्-तादृशो भाविनः कालात् (इति तृतीयो हेतुः)। चकाराकरणात् त्रयाणामप्येषां नियतिस्वभावकालानां समुदितानामेकीभावेन पारमाथ्यों| दभेदो विवक्षितः। कथंभूतादस्माद् हेतुत्रयादित्याह-'शुभाशोभनभुक्तिहेतोः' इति-सुखदुःखभोगकारणादित्यर्थः ॥१॥
मूलम् कर्माणि योगीन्द्र ! जडानि सन्ति, तानि स्वयं नायितुं क्षमन्ते ।।
आत्मा तु बुद्धः स्वयमेव जानन , कर्माण्यशस्तानि कथं हि लाति ! ॥२॥ टीका-'कर्माणीत्यादि, हे 'योगीन्द्र ! -हे योगिराज! शैवस्य जैनं प्रत्युक्तिः, 'कर्माणि जडानि'-अचेतनानि 'सन्ति । N'तानि' कर्माणि 'स्वयं-स्वत एव 'आश्रयितुं'-आश्रयणं कर्तुं जीवस्यावलम्बनं कर्तुमित्यर्थः, 'न क्षमन्ते'-न समर्थानि भवन्ति, In अचेतनानि कर्माणि निमित्तं विना जीवमाश्रयितुं न प्रभवन्तीति भावः । तात्मा तान्याददीत, इत्यपि परिहर्तुमाह-'आत्मा विप्रहणवदशुभकर्मग्रहणं वर्तत इति निगदन जैनाचार्यः शैवादिकं प्रत्युत्तरयति "सत्यं विज्ञानन्" इत्यारभ्यानधमकाव्यपूर्वार्धपर्यन्तग्रन्थेनेत्यादि स्वयं ज्ञेयम् ॥
--