________________
00000
MID
D696969696969696
मूलम् - कालात्मभावादिनियोजितान्यहो, स्वभावशक्तेश्च शुभाशुभानि यत् ।
कर्माणि सामीप्यसमाश्रितान्यय-मात्माऽपि गृह्णाति तथाऽविचारितम् ॥११॥ टीका - दाष्टान्ते योजनामाह 'कालात्म० ' इत्यादिना । ' तथा ' -उक्तप्रकारेण 'यद् यतः 'अहो' इति विस्मये 'अयं'विवक्षितः, आत्मा'- जीवोऽपि, 'अविचारितं ' - विचारं विनैव 'शुभाशुभानि कर्माणि' - शुभान्यशुभानि च कार्याणि 'गृह्णाति' - आदत्ते । कथंभूतानि शुभाशुभानि कर्माणि ? 'कालात्मभावादिति योजितानि' - कालस्वभावादिभिः प्रेरितानि, आदिशब्देन नियत्यादिग्रहणम् । पुनः कथंभूतानि ? ' सामीप्यसमाश्रितानि ' - सामीप्यं प्राप्तानि । कुतो गृह्णाति ? इत्याह-स्वभावशक्तेः' इति आत्मनः स्वभावस्यैवेत्यं शक्तिरस्ति यस्या वशेन स उक्तकर्माणि गृह्णातीत्यर्थः ॥ ११ ॥
॥ जीवस्य शुभाशुभकर्म ग्रहणोक्तिलेशो || ॥ द्वितीयोऽधिकारः ॥
-->>K00+1
DEDE
AID