________________
र
साम्राज्ये ' - वरतरोऽतिशयेन वरो यः खरतरगणः खरतरगच्छस्तस्य धरो धारकः, एवम्भूतः सन् यो युगवरो युगप्रधानो जिनराजसूरिर्जिनराजनामधेयको विपश्चित् तस्य साम्राज्ये प्रदीप्तराज्यशासने सति, तथा ' महत्सु ' - महिमयुक्तेषु, 'तत्पट्टाचार्य श्रीजिनसागरसूरिषु' - तत्पट्टे श्रीजिनराजसूरिपट्टे ये आचार्याः श्रीजिनसागरसूरयः श्रीजिनसागरनामानो विद्वांसस्तेषु सत्सु ' वरनगरे ' - श्रेष्ठपुरे, 'अमरसरसि ' - अमरसरो नाम के, ' श्रीशीतलनाथलब्धसान्निध्यात् ' - श्रीशीतलनाथमूलनायकस्य सामीप्यं प्राप्य, ' सूरचन्द्रेण '-सूरचन्द्रनामा मया, ' सुविदे ' - ज्ञानाय, अल्पधियामार्हसिद्धान्तज्ञानायेत्यर्थः, 'अयम् ' - एषः, ' समर्थः ' - शक्तः, आर्हत् सिद्धान्तसारज्ञापनक्षम इतिभावः, 'ग्रन्थोऽग्रन्थि ' - सन्दर्भे निर्मितः ॥ १३-१४॥ मूलम् - श्रीमत्खरतरवरगण - सूरगिरिसुरशाखिसन्निभः समभूत् । जिनभद्रसूरिराजो-समः प्रकाण्डोऽभवत्तत्र श्रीमेरुसुन्दरगुरुः, पाठकमुख्यस्ततो बभूवाऽथ । तत्र महीयः शाखा - प्रायः श्रीक्षान्तिमन्दिरकः तार्किकऋषभा अभवन्, हर्षप्रियपाठकाः प्रतिलताभाः । तस्यां समभूवन्निह सुरभिततरुमञ्जरीतुल्याः
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
१ बृहत् । २. प्रतिशाखाभाः ।