________________
।
-
-
SASSASSSSS
चारित्रोदयवाचक-नामानस्तेष्वभुः फलसमानाः । श्रीवीरकलशसुगुरवो, गीतार्थाः परमसंविग्नाः । ॥ १८॥ तेभ्यो वयं भवामो, बीजाभास्तत्र सूरचन्द्रोऽहं । गणिपद्मवल्लभपटु-र्द्वितीयीको गुरुभ्राता
॥१९॥ अस्मत्तु हीरसार-प्रमुखा अङ्करकरणयः सन्ति ।
तेऽपि फलन्तु फलोधैः, सुशिष्य-रूपैः प्रमापटुभिः ॥२०॥ टीका-स्ववंशावलिकामभिधातुकाम आह-श्रीमदित्यादि 'श्रीमत्खरतरवरगणः '-ऐश्वर्ययुक्तः श्रेष्ठः खरतरनामा गच्छ:, 'सुरगिरिसुरशाखिसनिमः समभूत् '-मन्दराचलोत्पनकल्पवृक्षसमानोऽजायत, 'तत्र'-पूर्वोक्त कल्पवृक्षे, 'जिनमद्रसरिराजः '-जिनभद्रनामा विपश्चित् वरः, 'असमः'-अद्वितीयः, 'प्रकाण्डोऽभवत्-स्कन्धसमान आसीत् , 'ततः'-तत्पवात् , ' अथे 'ति विनिश्चये, 'तत्र'--पूर्वोक्ते प्रकाण्डे, 'श्रीमेरुसुन्दरगुरुः'-श्रीमेरुसुन्दरनामाऽऽचार्यः, ' महीयाशाखाप्रायः'-बृहच्छाखासदृशः, 'बभूव '-अभवत् , कथम्भूतः श्रीमेरुसुन्दरगुरुः १ 'पाठकमुख्यः'-पाठकेषु प्रधानः, पुन: कथम्भूतः ? 'श्रीक्षान्तिमन्दिरकः'-श्रियाः क्षान्तेश्वाऽऽलयः, तस्य 'हर्षप्रियपाठकाः 'हपाठकाः, प्रियपाठकाश्थ, 'प्रतिलतामा अभवन् '-प्रतिशाखासमाना बभूवुः, कथम्भूता हर्पप्रियपाठकाः १ तार्किकऋषभाः' नैयायिकेपु श्रेष्ठाः, 'तस्याम् '-पूर्वोक्तायाम् प्रतिलतायाम्, 'इह'-अस्मिन् संसारे, 'चारित्रोदयवाचकनामानः '-चारित्रवाचकनाम्ना