________________
*
*
*
RSREASSAREER
*
अथवा, ' भ्रमसम्भ्रमाभ्याम् '-अतिसङ्केगवशात् , ' यन्यूनम्'-न्यूनतायुक्तम्, 'अवादि'-कथितम् , यच्च ' अन्यूनम्'अधिकम् अवादि, 'तत्'-पूर्वोक्तम् , 'मे'-मम, 'दुष्कृतम्'-दुष्कर्म, 'वस्तुत:'-तत्वतः, 'मृषाऽस्तु'-मिथ्या भवेत् ॥११॥ मलम-मया जिनाधीशवचस्सु तन्वता, श्रद्धानमेवं य उपार्जि सज्जनाः ।।
धर्मस्तदेतेन निरस्तकर्मा, निर्मातशर्माऽस्तु जनः समस्तः ॥ १२ ॥ टीका-ग्रन्थनिर्माणप्रयासजन्यधर्मफलमाह-मयेत्यादिना 'सजनाः !'-हे सत्पुरुषाः1, 'जिनाधीशवचस्सुजिनेश्वरवचनेषु, ' एवम् '-उक्तप्रकारेण, ' श्रद्धानम् '-श्रद्धां, 'वितन्वता'-कुर्वता, मया यो 'धर्म उपार्जि '-पुण्यमर्जितम्, तच्छन्दो विनिश्चये, 'एतेन '-उपार्जितेन धर्मेण, 'समस्तो जनः '-सकलोऽपि पुरुषः, 'निरस्तकर्मा '-कर्मरहितः, तथा 'निर्मातशर्मा '-प्राप्तसौख्यः, 'अस्तु'-भवेत् ॥ १२ ॥ मलम-वरतरखरतरगणधरयगवर-जिनराजसरिसाम्राज्ये।
तत्पट्टाचायश्रीजिन-सागरसूरिषु महत्सु ॥ १३ ॥ अमरसरसि वरनगरे, श्रीशीतलनाथलब्धिसान्निध्यात् ।
ग्रन्थोऽग्रन्थि समर्थः, सुविदेऽयं सूरचन्द्रेण ॥ १४ ॥ टीका-महात्मगौरवनिदर्शनपूर्वकम् ग्रन्थरचनस्थानमाह-वरवरेत्यादिना 'वरतरखरतरगणधरयुगवरजिनराजमरि१. गत । २. सिद्ध ।
*
-
*
-
**
*