________________
AXHIAJAL
मूलम्-आनन्दनायास्तिकनास्तिकानां, ममोद्यमोऽयं सफलोऽस्तु सर्वः।।
__ आयेषु चाऽऽस्तिक्यगुणप्रसारणा-दन्त्येषु नास्तिक्यगुणापसारणात् ॥१०॥ टीका-ग्रन्थफलविषयमाह-आनन्देत्यादिना ' आस्तिकनास्तिकानाम्'-आस्तिकमतानुयायिनास्तिकमतानुयायिनाम् जनानाम् , ' आनन्दनाय '-प्रमोदाय, 'मम'-मत्सम्बन्धि, 'अयम्'-एपः, ग्रन्थनिर्माणरूप इतिभावः, 'सर्वः'-सकलः, 'उद्यमः'-उद्योगः, ' सफलोऽस्तु'-फलयुक्तः स्यात् , आस्तिकनास्तिकप्रमोदोत्पादनायाऽयं ममोद्योगः पर्याप्तः स्यादितिभावः, 'परस्परम् '-विभिन्नयोरास्तिकनास्तिकयोरयमुद्योगः कथमानन्दनाय भवितुम् शक्नोतीति शङ्कामपनेतुमाहआद्येष्वित्यादि आयेषु'-प्रथमेषु, आस्तिकेष्वित्यर्थः, 'च' शब्दचरणपूत्तौं, 'आस्तिक्यगुणप्रसारणात् '-आस्तिकसम्बन्धिगुणानाम् विस्तारात् ममोद्यमः सफलोऽस्तु, 'अन्त्येषु'-अन्तिमेषु, नास्तिकेष्वितिभावः, नास्तिक्यगुणाप्रसारणात् नास्तिकसम्बन्धिगुणानामपनोदात् ममोद्यमः सफलोऽस्तु ॥१०॥ मूलम्-चिरं विचारं परिचिन्वताऽमुं, यन्यूनमन्यूनमवादि वादतः।
कदाग्रहाद्वा भ्रमसम्भ्रमाभ्याम्, तन्मे मृषा दुष्कृतमस्तु वस्तुतः ॥११॥ टीका-न्यूनाधिकप्रवचने मिथ्यादुष्कृतमाह-चिरमित्यादिना 'चिरम् '-चिरकालपर्यन्तम्, 'अमुं'-पूर्वोक्तम् , 'विचारम्'-विमर्शम् , 'परिचिन्वता'-संगृहणता मया, 'वादतः'-वादवशात् , 'कदाग्रहात्'-कुत्सितहठवशात् , 'वा'
१. आस्तिकेषु । २. नास्तिकेषु । ३. मिथ्या । ४. तत्त्वतः ।
U GHISAIGROSAS