________________
ॐ52515255ॐॐॐ
रमवगन्तुं ऐदंयुगीनानां जनानां बुद्धिर्दुतं न क्षमाऽस्तीतिभावः, 'अतः'-परप्रेरणपारवश्यात्, अन्यनोदनरूपपारतन्त्र्यात् , हेतौ पञ्चमी, ' अजानतापि'-ज्ञानरहितेनाऽपि, मया ' इति '-एता, 'धृष्टतां विधृत्य'-प्रागल्भ्यं धृत्वा, 'परेण पृष्टाःभिन्नमतानुयायिना पृष्टां नीताः, ' एते '-पूर्वोक्ता ग्रन्थोक्ता इत्यर्थः, ‘कियन्तः '-स्वल्पाः प्रश्नाः, 'पठितोत्तरोत्तराः'प्रश्नप्रतिवचनक्रमेण निदर्शिताः सन्तः, 'व्यतायन्त'-विस्तारं नीताः ॥ १-२॥ मूलम्-शैवेन केनापि च जीवकर्मणी, आश्रित्य पृच्छाः प्रसभादिमाः कृताः।
मा भूजिनाधीशमतावहेले-त्यवेत्य मझुत्तरितं मयैवम् ॥३॥ टीका-कथम् किमर्थं च प्रश्नप्रतिवचनक्रमो जात इत्याह-शैवेनेत्यादिना 'च' शब्दश्चरणपूत्तौं, 'केनापि'केनचित् , 'शैवेन'-शिवमतानुयायिना, शिवोपासकेन जनेनेत्यर्थः, 'जीवकर्मणी आश्रित्य '-जीवकर्मणोरवलम्बनम् कृत्वा, जीवकर्मणोः सम्बन्धे इतिभावः, 'प्रसभात् ' हठात् , ' इमाः पृच्छाः कृताः'-एते प्रश्ना विहिताः, तदा, 'जिनाधीशमतावहेला'-जिनेश्वरमतस्याऽनादरः, ' मा भूत्'-न भवेत् , ' इत्यवेत्य'-एतद्विचार्य, 'मयैवम् '-मया उक्तरीत्या, 'मक्षु'-शीघ्रमेव, ' उत्तरितम् '-प्रत्युक्तम्, उत्तर प्रदातमित्यर्थः ॥ ३ ॥
मूलम्-यथा यथा तेन हृदुत्थतर्क-माश्रित्य पृच्छाः सहसाऽक्रियन्त ।
___ तथा तदुक्तं पुरतो निधाय, मया व्यतायुत्तरमाहतेन ॥४॥ टीका-केन क्रमेणोत्तरितमित्याह-यथेत्यादिना 'हृदुत्थतर्कमाश्रित्य '-हृदयोत्पन्नतर्कमवलम्ब्य, 'तेन'-शैवेन,
OSTOSKORISOSTOGOS SISSE