________________
' यथा यथा ' - येन प्रकारेण यद्यत्क्रमेणेत्यर्थः, 'सहमा' - साहसपूर्वकम्, 'पृच्छा अक्रियन्त' - गश्ना विहिताः, ' तथा 'तेन प्रकारेण, तत्क्रमेणेत्यर्थः, ' तदुक्तं ' - शैत्रकथनं, ' पुरतो निधाय ' - अग्रे संस्थाप्य, ' आर्हतेन ' - अर्हत्प्रणीतागमद्वारा, आर्हत् सिद्धान्तेनेतिभावः, मया ' उत्तरं व्यतारि ' - प्रतिवचनम् प्रदत्तम् ॥ ४ ॥
मूलम् - मया त्विदं केवल लौकिकोक्ति - प्रसिद्धमाधीयत पृष्टशासनम् । पुराणशास्त्राहितबुद्धयस्तु, पुरातनीं युक्तिमिहाद्रियन्ताम् ॥ ५ ॥
टीका - विदुषां सम्बन्धे स्वस्याऽल्पमतित्वमुपदर्शयितुमाह - मयेत्यादि ' तु' शब्दो विनिश्वये, मया ' इदं ' - पूर्वोक्तम्, ' 'पृष्टशासनम् ' - प्रश्नप्रतिवचनन्, 'केवललौकिकोक्तिप्रसिद्धम् - केवलं सांसारिककथने प्रख्यातम्, 'आधीयत - धृतम्, विहितमित्यर्थः, अस्ति ' तु' शब्दो भिन्नक्रमद्योतनार्थ:, ' पुराणशास्त्रा हितबुद्धयः ' - प्राचीनशास्त्राभ्यासेन प्राप्तधीप्रकर्पा जनाः, ' इह ' - अस्मिन् विचारे, मत्कथितविचार इत्यर्थः, 'पुरातनीं युक्तिमाद्रियन्ताम् ' - प्राचीनां युक्तिमाश्रयन्ताम्, मत्कथितविचारे प्राचीनमपि युक्ति संघटयन्त्वितिभावः ॥ ५ ॥
मूलम् - परं विचारेऽत्र न गोचरो मे, प्रायेण मुह्यन्ति मनीषिणोऽपि ।
अमुं विना केवलिनं न वक्तुं व्यक्तोऽपि शक्तः सकलश्रुतेक्षी ॥ ६ ॥ टीका — उक्त विचारस्य महत्त्वमाह - परमित्यादिना ' परम् ' - किन्तु, ' अत्र विचारे ' - पूर्वोक्ते विमर्शे, 'मे' - मम, ' गोचरः ' - विषयः, नास्ति, अत्र हेतुमाह - प्रायेणेत्यादिना यतः ' प्रायेण - बहुधा, ' अत्र ' - विचारे, ' मनीषिणोऽपि -