________________
Crashesta
____टीका-अत्रैव पुष्टिमाह-क्रिये इत्यादिना ' इमे'-पूर्वोक्ते, 'द्वे क्रिये'-उमे क्रिये, तदानीम् 'युगपत् समास्ताम् 'एकस्मिन्नेव समये समभवताम् , अत्र हेतुमाह-ये इत्यादिना यतः 'ये ज्ञेयदृश्ये '-ज्ञानयोग्य-दर्शनयोग्ये वस्तुनी स्तः, 'ते'-ज्ञेयदृश्ये, 'इह '-अस्मिन् भवे, मनुष्यभव इत्यर्थः, 'अभूताम् '-अवताम् , फलितमाह-तत इत्यादिना 'ततः'तसात् कारणात् , 'किले 'ति निश्चयेन, ' नृजातौ'--मनुष्यभवे, 'सक्रियत्वमभूत् '-क्रियायुक्तत्वमासीत् , 'तु'--परन्तु, 'खल्वि 'ति निश्चयेन, 'सिद्धौ'-सिद्ध्यवस्थायां, 'निष्क्रियत्वं '-क्रियारहितत्वं भवति ॥ ३८॥
मूलम्-एवं तु निष्क्रियता प्रसिद्धा, सिद्धेषु सिद्धाऽस्त्यवधारणेन ।
सर्वस्य चैतस्य मनोनिरोधो, हेतुस्ततोऽत्रैव रमध्वमध्वनि ॥ ३९ ॥ टीका-फलितकथनपूर्वकमुक्तविषयं निगमयति-एवमित्यादिना 'तु' शब्दश्चरणपूत्तौं, 'एवम् '-अनया रीत्या, 'सिद्धेषु'-सिद्धि प्राप्तेषु जीवेषु, 'प्रसिद्धा'-प्रख्याता, 'निष्क्रियता'-क्रियारहितता, 'अवधारणेन'-निश्चयेन, निश्चयपूर्वकमिति यावत् , ' सिद्धाऽस्ति '-सिद्धिंगता भवति, 'च'-पुन, ' एतस्य '-पूर्वोक्तस्य, 'सर्वस्य '-सकलविषयस्य, 'हेतुः'-कारणम् , 'मनोनिरोधः '-मानसस्य निग्रहः, अस्ति, 'तत् '--तस्मात् कारणात, 'अत्रैव अध्वनि '-अस्मिन्नेव मार्गे, निदर्शिते पथीतिभावः, यूयम् ' रमध्वम् '-रमणं कुरुध्वम् ॥ ३९ ॥ । आस्तिकनास्तिकानां द्वयेषामपि परम्परया मनोनिर्विषयतापादनेन च मुक्तिप्राप्तनकारणोक्तिलेशोविंशतितमोऽधिकार,
PORNSHIRISHISHISEIROSTRA
..
.....................
HOMEm......normanmar.mame.com..............
.
.
.
.