________________
·
टीका-कदा सर्वथा मुक्तो भवति इत्याह- स तावतेत्यादिना ' सः ' - पूर्वोक्तो योगी, ' यदि 'ति निश्चयेन, तावता ' - तत्कालपर्यन्तम्, ' इह ' - अस्मिन्संसारे, ' शरीरधारी अस्ति ' - देहधारको भवति, ' यावत् ' - यत्कालपर्यन्तम्, ' सूक्ष्मक्रियातोऽपि ' - सूक्ष्मक्रियाऽपि, सूक्ष्मा चेष्टाऽपि, ' नष्टा ' - नाशं प्राप्ता भवति, तदा तस्मिन्काले, 'सिद्धताप्तेः, सिद्धत्वप्राप्ते, हेतौ पञ्चमी, ' मुक्तः सिद्ध्यति ' - मुक्तो जायते, मुक्तिर्मन्यत इतिभावः ॥ ३५ ॥
सिद्धौ निष्क्रियतां चतुः श्लोकैराह -
मूलम् - विद्वन् ! विमर्शः क्रियतामयं क्रिया - वन्तोऽथवा निष्क्रियकाश्च सिद्धाः । चेन्निष्क्रिया ज्ञानजदर्शनोत्थ- क्रियाऽक्रियेष्वेषु कथं न सिध्येत् ? ॥ ३६ ॥
टीका - मुक्तेषु क्रियाविषयकप्रश्नमाह - विद्वन्नित्यादिना 'विद्वन् ! ' - हे बुध !, ' अयं ' - वक्ष्यमाणः, 'विमर्श: 'विचारः, 'क्रियताम् ' - विधीयताम् भवता यत् ' सिद्धा: ' - सिद्धिं प्राप्ता जीवाः, ' क्रियावन्तः 1 - क्रियायुक्ता भवन्ति, अथवा ' - यद्वा, ' निष्क्रियका: ' -क्रियारहिता भवन्ति, ' च ' शब्दचरणपूत, ' ते ' - सिद्धाः, ' निष्क्रियाः '- क्रियारहिता भवन्ति, तर्हि ' अक्रियेषु - क्रियारहितेषु, ' एपु ' सिद्धेपु, 'ज्ञानजदर्शनोत्थक्रिया ' - ज्ञानोत्पन्ना दर्शनोत्पन्ना च क्रिया, ' कथं न सिध्येत् १ - कुतः कारणान्न सिध्यति १ ॥ ३६ ॥
१. सिद्धेपु ।