________________
' सर्वत्र '-सर्वविषयेषु, ' ममत्वमुक्तः '-ममत्वेन रहितो भवति, सारांशमाह-घनमित्यादिना 'ही' शब्दो विनिश्चये, चरणपूतौ वा, 'धनं किमिति'-अत्र विपये बहुनोक्तेन किं प्रयोजनमस्तीत्यर्थः, ' सः'-पूर्वोक्तः, 'एपः'-प्रसिद्धो योगी, सोऽविलोपे इत्यादिना चरणपूत्तौं, लोपेऽपि सन्धिः, “ मनःशरीरसुखासुखज्ञानविमर्शशून्यः'-मानसेन देहेन सौख्येन । दुःखेन ज्ञानेन विचारेण च रहितो भवति ॥ ३३ ॥ मूलम्-न पुण्यपापे भवतोस्य मुक्तितो, मम क्रियेयं मम चैष कालः।
सङ्गी ममाऽयं सुकृतं ममेद-मित्याद्यभिद्वान्मनसो विनिर्जयात् ॥ ३४ ॥ टीका-मुक्तदशायाम् किम् भवतीत्याह-न पुण्यपाप इत्यादिना 'मुक्तितः'-मुक्तिवशात् , हेतौ पञ्चमी, 'अस्य - पूर्वोक्तस्य योगिनः, 'पुण्यपापे'-धर्माधौं, 'न भवतः न जायते, तथा 'मनसो विनिर्जयात् '-मानसस्य विजयेन, 'इयं'-विवक्षिता, ' मम क्रिया'-मत्सम्बन्धिकृत्यम्, अस्ति 'च'-पुन:, 'एप:'-विवक्षितः, 'मम काल:'-मत्सम्बन्धी समयोऽस्ति, 'अयं '-विवक्षितः, 'मम सङ्गी'-मत्सम्बन्धी सहायोऽस्ति, तथा 'इदं '-विवक्षितम्, 'मम सुकृतंमत्सम्बन्धि पुण्यमस्ति ' इत्याद्यभिद्वान् '-इत्यादि भेदैः रहितो भवति ॥ ३४ ॥
मूलम्-स तावतेहास्ति शरीरधारी, सूक्ष्मक्रियातोऽपि न निष्क्रियो यत् ।
यावद्यदा सूक्ष्मक्रियापि नष्टा, मुक्तस्तदा सिद्ध्यति सिद्धतीप्तेः ॥ ३५॥ १. सहाय' । २. प्राप्तः ।
OSHIRIQLARIOS ORTOGHESIAS