________________
OSOBNPB*
समीपात् , प्रमे ' मुक्ते'-विनष्टे सति, 'एषः '-पूर्वोक्तः, 'आत्मा'-जीवः, ' मुक्तो भवति '-भ्रमरहितो जायते, 'इति सिद्धम् '-एतत् सिद्धिमुपगतम् , ' तु'-पुनः, 'ही 'ति चरणपूत्तौं, 'अस्मिन् मुक्ते-आत्मनि भ्रमरहिते सति, तदात्मनः'पूर्वोक्तस्याऽऽत्मनः, 'च'-पुनः, 'श्रीपरमात्मनः'-परमेशस्य, 'अभेदो भवेत् '-अभिन्नत्वं जायते ॥ ३१ ॥ मूलम्-यदानयोक्षित एकभावं, योगी तदात्मावगमी निगद्यते।
स केवलज्ञानमयो मुनीश्वरः, कर्मक्रियाभ्रान्तिविमुक्त उक्तः॥ ३२॥ टीका-तयोरभेदावगमे किं भवतीत्यादिना ' यदा'-यस्मिन्काले, ' योगी'-योगाभ्यासकर्ता, ' अनयोः '-आत्मपरमात्मयोः, 'एकभावं वीक्ष्यते '-अभेदं पश्यति, 'तदा'-तस्मिन् काले, 'सः'-आत्मा, ' अवगमी निगद्यते'-आत्मज्ञः कथ्यते, तदैव 'सः'-योगी, 'केवलज्ञानमय:'-केवलज्ञानयुक्तः, 'मुनीश्वरः-मुनिराजः, तथा 'कर्मक्रियानान्तिविमुक्त:कर्मरहितः, क्रियारहितो भ्रान्तिरहितश्च, ' उक्तः'-कथितो भवति, उच्यत इत्यर्थः ॥ ३२ ॥ मूलम्-यदा त्वयं मुक्त इति प्रसिद्ध-स्तदा हि सर्वत्र ममत्वमुक्तः।
घनं हि किं सैष मनःशरीर-सुखासुखज्ञानविमर्शशून्यः ॥ ३३ ॥ टीका-मुक्तप्रसिद्धौ किं भवतीत्याह-यदा वित्यादिना 'तु'-पुन:, 'यदा'-यस्मिन् काले, 'अयं '-पूर्वोक्तो योगी, ' मुक्त इति प्रसिद्धः'-मुक्त इति नाम्ना प्रख्यातो भवति, 'तदा'--तस्मिन् काले, ' ही 'ति निश्चयेन, अयम् ।
१. विचार ।
ROSAS*363
-
-