________________
मूलम् - रेवन्तनागाधिपपश्चिमेश - श्रीशीतलादिप्रतिमा अजीवाः ।
सम्पूजितास्तद्गतकार्यसिद्धिं कुर्वन्ति यदुवंच तथाऽधिपांच
॥ २० ॥
टीका - उदाहरणान्तराण्याह - रेवन्तेत्यादिना ' यवत् ' - यथा, ' च ' शब्दश्चरणपूत, 'रेवन्तनागाधिपपश्चिमेशश्री शीतलादिप्रतिमाः ' - रेवन्तप्रतिमा, नागाधिपप्रतिमा, पश्चिमेशप्रतिमा, श्रीप्रतिमा, शीतलादीनां च प्रतिमाः, 'अजीवाः' - जीवरहिता:, ' अपि सम्पूजिताः ' - अर्चिताः सत्यः, ' तद्गतकार्यसिद्धिं कुर्वन्ति ' - स्वसम्बन्धिकार्याणाम् साधनं विदधाति, ' तथा ' - तेनैव प्रकारेण, ' अधिपाच ' - स्वामिप्रतिमा अपि समचिंता ' तद्गतकार्यसिद्धिं कुर्वन्ति ' - स्वसम्बन्धिकार्याणाम् साधनं विदधाति, ' तथा ' - तेनैव प्रकारेण, ' अधिपाच - स्वामिप्रतिमा अपि समर्चिता तद्गतकार्यसिद्धिं करोति ॥ २० ॥
मूलम् - ये कार्मणाकर्पणवेदिनस्तथा, नाम्नैव येषां मदनादिपुत्रके ।
निर्जीवके तं विधिमाचरन्त्य हो, यस्मात्सजीवानपि मूर्च्छयन्ति तान् ॥ २१ ॥ टीका - अत्रैव पुष्ट्यर्थं उदाहरणमाह-य इत्यादिना ' तथे ' ति समुच्चये, ' ये ' -जनाः, ' कार्मणाकर्षणवेदिनः 'मूलकम कृष्टिकर्मप्रयोगज्ञातारः सन्ति, ते ' निर्जीवके ' -जीवरहिते, 'मदनादिपुत्र के ' - मदनादिना निर्मितायां पुत्रकायां, ' येषाम् ' – जनानाम्, 'नाम्नैव ' - नामधेयेनैव, 'तं ' - विवक्षितम्, ' विधिं ' -विधानम्, ' आचरन्ति ' - कुर्वन्ति, 'अहो ' - इत्यामन्त्रणे, चरणपूर्वौ वा, ' यस्मात् ' यद्विध्याचरणवशात्, ' तान् ' -जनानू, ' सजीवानपि ' - जीवसहितानपि,
१. यथा । २. स्वामि- ।